________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्यान
अट्ठाइ
सर्वैरपि सा प्रशंसिता, अतः सर्वदानानामभयदानं श्रेष्टमिति ज्ञापितं, ततः सुश्रावकेणात्र पर्वणि खंडनपेषणवस्त्र-5
क्षालनाद्यारंभो विवर्जनीयः, तैलिकलोहकारभ्राष्ट्रकर्मकारकादिषु वाचा धनव्ययेन चारंभो निवारणीयः, स्वशक्त्या ॥४॥
पदिमोक्षश्च कार्यः, ग्रामनगरमध्येऽमारीघोषणा कारयितव्या, येन केनापि प्रकारेण जीवरक्षा कार्येति ॥
द्वितीयाश्रवपरित्यागे मृषावचनमत्र पर्वणि न वक्तव्यं, गालिप्रदानादिकठिनवाणी न वाच्या, सर्वथा वाक्शुद्धिः कार्या. तृतीयाश्रवपरित्यागे परधनगृहणं विवर्जनीयं, द्रव्यस्य हि जंतूनां बाह्यप्राणरूपत्वात्, तदपहारस्य च मरणरूपकष्टहेतुत्वात् , चतुर्थाश्रवपरित्यागेऽत्र पर्वणि ब्रह्मचर्य पालनीयं, स्त्रीसंगो विवर्जनीय इत्यर्थः, परस्त्रीसेवनं तु लोकद्वयविरुद्धत्वात् सुश्रावकेणावश्यमेव वय, पंचमाश्रवपरित्यागे धनधान्यादिनवविधपरिग्रहे परिमाणं कार्य, परिग्र
हतृष्णाऽपरिमिता न धार्या, इच्छापरिमाणं विधेयमित्यर्थः. तथा पुनरस्मिन् पर्वणि कषायरोधः कर्तव्यः, कषायाश्चॐ त्वारः क्रोधमानमायालोभाख्यास्तेषां परित्यागो विधेयः, क्रोधोदये हि कलहोत्पत्तिश्चिरंतनप्रीतिनाशश्च, मानोदये विनयनाशस्तश च सध्ध्यानवतामपि मुनीनां केवलावाप्ती अंतरायः स्यात्, राजर्षिर्वाहुबलियत्. एवं मायोदये लोभोदयेऽपि च बहवो दोषा उत्पद्यते, अतश्चत्वारोऽपि कषायास्याज्याः, उक्तं च-कोहो पिइं पणासेइ । माणो
विणयनासणो ॥ माया मित्ताणि नासेइ । लोहो सव्वविणासणो ॥१॥ तस्मात् शुभ आचारो येषां ते शुभाचाराजस्तैः श्रावकैराश्रवकषायरोधः कर्तव्य इत्युक्तं, अथ पुनरत्र पर्वणि यत्कर्तव्यं तदेव श्रावकविशेषणद्वारेणाह-कीदृशैः
श्रावकैः? सामायिकजिनपूजातपांसि तेषां विधानं करणं, तदादीनि तत्प्रभृतीनि कृत्यानि कार्याणि तेषु तत्परैरित्यर्थः.
गावश्यमेव पर्वणि प्रयाचा व्यस्य हि जमदानादिकटिना
For Private and Personal Use Only