________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अठ्ठाइ
नव्याख्य
步回回回回回回回回回回回A
नीकेन दृष्टः, स च कीदृशः ? कंठन्यस्तरक्तकणवीरमालो रक्तवस्त्रपरिधानो रक्तचंदनानुलिप्तगात्रः पुरस्तादाद्यमानव
डिडिमः, इत्थं विविधविडंबनाभिर्विडंब्यमानं तं चौरं दृष्ट्वा राज्ञीभिः पृष्टं, किमकार्यमनेनाकारीति, तदा एकेन राजपुरुषेण तासां पुरः कथितं, परद्रव्यापहारेण राजविरुद्धमनेन कृतमिति, ततः संजातकृपया एकया राज्या विज्ञप्तो राजा, स्वामिन् यो भवता मा प्राग्वरः प्रतिपन्नः सोऽघुना दीयतां, येनाहमेकदिनमुपकरोमि चौरं, तदा कथंचिद्राज्ञा प्रतिपन्नं तद्वचः, ततस्तया स्नानादि पुरस्सरं दीनारसहस्रध्ययेन विविधवस्त्रालंकारैरलंकृतः स चौरः, ततो द्वितीयया द्वितीय दिने राजानं विज्ञप्य दीनारदशसहस्रव्ययेन स सत्कृतः, ततस्तृतीयया तृतीयदिने दीनारलक्षव्ययेन स उपचरितः, ततश्चतुर्थ्यां दीनारकोटिव्ययेन चतुर्थो दिवसोऽतिवाहितः, ततः पंचम्या दुर्भगया राज्या पंचमदिने राज्ञः समीपमागत्य विनयमात्रया दीनवचसा नृपो विज्ञप्तः, स्वामिन् मम दुर्भगाया उपरि भवदीया तादृशी कृपा नास्ति, तेन मया कदापि भवंतो न याचिताः, अधुनाऽस्य चौरस्य जीवितदानं मया त्वां याच्यते, तदा राज्ञापि जीवितपदानपूर्वक चौरः प्रदत्तोऽनया च तं चौरं खगृहे नीत्वा सामान्यभोज्येन भोजयित्वा कथितं, मया तुभ्यं जीवितं प्रदत्तं, पुनश्चौर्य
मा कार्षीस्ततोऽसौ हृष्टस्तदा सपत्नीभिर्हसितं नास्य त्वया किंचित् सुखकारि कृतं, तासां च परस्परं बहपकारविषये = घिवादे संजाते राज्ञा स एव चौरः समाहूय पृष्टोऽहो कया तव बहूपकारः कृत इति, तेनाप्यभाणि भो महाराज 5 चतुरो दिनान् यावन्मरणभयभीतेन मया न किंचित्लानभोजनादिसुखमज्ञायि, अद्य पंचमेऽहनि अस्याः पंचम्या | ॐ राज्या मुखादभयदानाकर्णनेन परमसुखमनुभूयते, अत एव तस्या उपकारः सर्वतो महान् , एतच्चौरवचः श्रुत्वा ।
च परस्पर
जनादिसुखाकृत इति
For Private and Personal Use Only