________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
७५
चोच्यन्ते । कमाङ्गद्रव्यादुद्देशेन विधीयमानं कम्म सनिपत्योपकारकम् । यथावघातप्रोक्षणादि । तच दृष्टार्थमदृष्टार्थं दृष्टादृष्टार्थच । तत्र दृष्टार्थमवघातादि । अदृष्टार्थं प्रोक्षणादि । दृष्टादृष्टार्थं पशुपुरोडाशादि । तहि द्रव्यत्यागांशनैवादृष्टं देवतोद्देशेन च देवतास्मरण' दृष्टं करोति ।
|
"
अवघातसा
क्रियारूपयोर्गुणकर्म प्रधानकर्मणोरेव यथाक्रमं सन्निपत्योपकारकारादुपकारकसंज्ञा । नतु सिद्धरूपाणां जातिद्रव्यादीनां तेषां साचादेव यागशरीरघटकत्वेन स्वरूपनिब्बीहकतया उपकारत्वमावमिति सिध्यति । सन्निपत्येति । सन्निपत्य द्रव्यादिहारेण यागशरीरघटकीभूय । उपकारकाणि यागजन्यापूब्र्बोपयोगीनि । आरादिति । आरात् दूरे स्थित्वा यागशरीरमप्राप्य तियावत् । उपकारकाणि स्वापूर्व्वद्दारा यागापूर्वोपयोगीनीतार्थः । सन्निपत्योपकारकं लचयति कमीङ्गति । अवघातेति । व्रीहीन वहन्ति व्रीहीन् प्रोचतोत्यादिश्रुतिविहितेतार्थ: । आदिना पेषणादिपरिग्रहमन्त्रपरिग्रहव । तस्य प्रयोजनभेदेन चैविध्यमाह तच्चेति । दृष्टार्थं दृष्टमात्र प्रयोजनकम् । एवमदृष्टार्थमिवावापि । तव दृष्टार्थीदिषु मध्ये | अवघातादीति । तुष्यरूपदृष्टमात्रप्रयोजनकत्वादितिभावः । आदिपदात्पेषणपरिग्रहः । तसा पुरोडाश निष्पादनोपयोगित्वरूप दृष्टमावफलकत्वात् । प्रोक्षणादौति | आदिना ग्रहं संमाष्टौति संमार्जनपरिग्रहः । der व्रीह्यादिसंस्काररूपालौकिकमात्रप्रयोजनकत्वात् । पशुपुरोडाशादीति । पशुपर्द पशुकरणकहोमपरम् । एवं पुरोडाशपदमपि । आदिना सोमकरणक होमसंग्रहः । होम देवतोद्देशेनाभिप्रक्षेपावच्छिन्नद्रव्यत्यागरूपः । टाटार्थत्वमुपपादयति तीति । द्रव्यतयागांशेन अग्निप्रक्षेपांशेन । अदृष्टं यागजन्यापूर्वं करोतीति परेणान्वयः । देवतोद्देशेन अमुक देवताया इदं भवत्विताभिसन्धानेन । दृष्टमिति । देवताया इदं भवत्विताभिसन्धाने कृते देवताया: मरणस्य सर्व्वलोकानुभवसिद्धत्वादितिभावः ।
For Private And Personal