________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
देशसामान्यं स्थानम् । तत् द्विविधं पाठसादेश्यमनुष्ठान-: सादेश्यञ्चेति । स्थानं क्रमश्चेत्यनर्थान्तरम् । पाठसादेश्यमपि
६५
बिषयकमुपाखयानं बह्वृचब्राह्मणे समाम्नातमिति माधवाचार्य्याः । तत्र संशयः । किं सन्निधिरुपस्थानात् विदेवनादयो अभिषेचनौयार्थीः । उत प्रकरणाद्राजसूयगतपशुयागादिसर्व्वयागार्थी इति । तत्र प्रकरणमा स्थानादितो बलवत्त्वेन राजसूयगतसब्बैयागार्थी एवं विदेवनादय इति निर्णीयते । तथाहि कतायामनुवर्त्तमानायां राजसूयकथम्भावाकाङ्क्षायां पठिता विदेवनादयो महाप्रकरणेन राजसूयाङ्गतामर्हन्ति । अभिषेचनीयसा तु सोमयागत्वेन ज्योतिष्टोम विकृतितया प्राकृतैरेबाजर्निराकाङ्क्षीकृतत्वात् तेषां तदङ्गत्वानुपपत्तेः । सन्निहितविधिवलात् अभिषेचनीयकथम्भावाकाङ्क्षारूपावान्तरप्रकरणपरिकल्पनापेचया कप्प्र महाप्रकरणसा सन्निकृष्टत्वाच्च । ननु राजसूयगतानां पश्वादियागानामपि विकृतितया निराकाङ्क्षत्वात् कथं देवनादीनां तदङ्गत्वं सम्भवतीति चेन्न । प्रातिखिकरूपेण निराकाङ्क्षत्वेषि राजसूयरूपेण साकाङ्क्षत्वात् । अतएव राजसूयाय होना उत्पुनाति राजसूयेनेजानः सर्व्वमायुरेतोत्याद्यङ्गविधयः सङ्गच्छन्ते । तद्दद्द वनादोपि तदङ्गान्येव न तु अभिषेचनीयसाङ्गानीति सिद्धम् ।
समानदेशत्वमितार्थः
!
पाठमाचावगत समान
क्रमप्राप्त स्थानं निरूपयति देशसामान्यमिति । स्थानं विभजति तदिति । द्वैविध्यमुद्दिशति पाठेति । देशवर्त्तित्वमितार्थः । अनुष्ठानेति । एकस्मिन् देशे अनुष्ठे यत्वेन निद्दिष्टत्वमितार्थः । उक्त वार्त्तिकक्aह्निः ।
तत्र क्रमी विधैवेष्टो देशसामान्यलक्षणः । पाठानुष्ठानसादेश्याद्दिनियोगसा कारणम् ॥
For Private And Personal
ननु “ क्रमश्च देशसामान्या" दिति सूत्रेण क्रमसा समानदेयत्वमुक्तम् । भाष्यवार्त्तिककाराभ्यामपि क्रमस्व तथाविधलक्षणत्वमभिहितम् । तत् कथं स्थानं देशसामान्यत्वेन लक्ष्यसीत्यत आह स्थानं क्रमश्वतीति । अनर्थान्तरं पदार्थान्तरं न भवति एकपदार्थ एवेतार्थ: ।
अतएव
ह