________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
६२
अर्थसंग्रहः। भाटव्याजुदते अभिक्रामं जुहोत्यभिजित्य इति । अनन्तरमपि प्रयाजानुवादेन “यो वै प्रयाजानां मिथुनं वेद" इत्यादिना किञ्चिदङ्ग विधीयते । अतः प्रयाजाङ्गमध्ये अभिहितमभिक्रमणं तदङ्गम् । प्रयाजैरपूर्व छत्वा यागोपकारं भावयेदिति ज्ञाते कथमेभिरपूर्व कर्त्तव्यमिति कथम्भावाकाझायाः सत्त्वात् । साच सन्देशपतितैरभिक्रमणादिभिः शाम्यति। नचाङ्गभावनायाः कथभावाकाझाऽभावः । भावनासाम्येन तत्रापि तत्सत्त्वात् ।
विधीयते, अनन्तरञ्च इत्यादिना किञ्चिदङ्ग विधीयत इतान्वयः । यतः प्रयाज सम्बन्धि किञ्चिदङ्गविधानानन्तरमभिक्रमणं विधीयते पश्चाचापरं प्रयाजसम्बन्धा विधीयते तस्मादभिक्रमणे प्रयाजाङ्गसन्देशः सिध्यतीतार्थः । यसा यजमानसा।
प्रेति नुदतवृतान्वयः भाटव्यात् शवो। अभिक्राम आहवनीयसमीपं गत्वा । अभिजित्यै जयाय । मिथुनं वेदेवादिनेत्यादिपदात् स समिधीवहौरिव यजतीतासरप्रतीकपरिग्रहः । इदमुपलक्षणम् । योवै प्रयाजानां मिथुनं वेद स समिधी वह्वौरिव यजतीतानन्तरानातया “प्रयाजानिष्टा हवौंष्यभिधारयतीति श्रुतया एतावता प्रदेशेव प्रयाजसमापनाभिधानात् हविरभिधारणपूर्व क्रियाणां प्रयाजाङ्गत्वावगमादपि अभिक्रमणमा प्रयाजाङ्गसन्दष्टत्वं प्रतेातव्यं । उपसंहरति अतइति ।
ननु प्रधानविधावेव कथभावाकाङ्क्षायाः सद्भावेन कथमङ्गानामङ्गसम्भव इतातीऽङ्गविधावपि कथम्भावाकाङ्क्षा प्रतिपादयति प्रयाजेरिति। ज्ञाते इति। लिङ्पदत्वाविशेषण तत्श्रुतया भावनाज्ञानमवश्यम्भावौतिभावः। एभिः · प्रयाजैः । शाम्यतीति। अभिक्रमणदिश्रुतया प्रयाजादिभिरपूर्वकरणप्रकारज्ञानादितिभावः । नन्वङ्गविधौ लिङ् पदश्रुतया भावनाज्ञानेपि तत्र कथम्भावाकाङ्क्षायां मानाभाव: । प्रधानविधावेव तत्सत्त्वात् । नहि भावनायाः कथम्भावाकाझाच्याप्यत्वं, होमकाले
For Private And Personal