________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
दर्शपौर्णमासवाक्येपि दर्शपौर्णमासाभ्यां स्वर्गं भावयेदिति वोधानन्तरं कथमिताखप्रपकारकाकाङ्क्षा । इत्थञ्चोभयाकाङ्क्षया प्रयाजादीनां दर्शपौर्णमासाङ्गत्वम् ।
तञ्च प्रकरणं द्विविधं, महाप्रकरणमवान्तरप्रकरणञ्चेति । तत्र मुख्यभावनासम्बन्धिप्रकरणं महाप्रकरणम् । तेन च प्रयाजादीनां दर्शपौर्णमासाङ्गत्वम् । एतच्च प्रकृतावेव, उभयाकाङ्क्षायाः सम्भवात् । न तु विकृतौ, तत्र प्रकृतिवद्दिशतिः कर्त्तव्येतातिदेशेन कथम्भावाकाङ्क्षाया उपशमेना
For Private And Personal
पू
कथम्भावनिवृत्तेर्विश्वजितम्प्रत्याकाङ्गाविरहेण उभयाकाङ्गारूपप्रकरणाभावात् । एवं तर्हि समियागं प्रति कस्याकाङ्क्षा वर्त्तते यमुपकार्य्यमवगच्छाम इत्यत श्राह दर्शपौर्णमासवाकेापीति । उपकारकाङ्क्षा. यागस्वरूपोत्पादके तिकर्त्तव्यताख्यः व्यापाराकाङ्क्षा | अतीतानेनान्वयः । इत्यमिदम्पूकारेण ।
प्रकरणं विभजति तचेति । महाप्रकरणं लचयति तचेति । तयोः प्रकरयोर्मध्ये । मुख्यति । मुख्यभावना यागेन स्वर्गं भावयेदिति फलभावना | तत्सम्बन्धिप्रकरणं तत्सम्वन्धिनी उभयाकाङ्क्षा । तेन महाप्रकरणेन । दर्शपौर्णमासाङ्गत्वं प्रागुक्तप्रकारेण । एतच्चेति । महाप्रकरणमितार्थः । प्रकृतावेव महाप्रकरणसावे हेतुमाह उभयेति । विकृतौ तदसावे हेतुमाह तचेति । उपशमेनेति । तथाच सौर्थं चरु' निर्व्वपेत् ब्रह्मवर्चसकाम इताव सूर्यदेवताक चरुनिर्वपणेन ब्रह्मवर्चसं भावयेदितात जायमानापि कथं भावयेदित्याकाङ्क्षा. प्रकृतिवदितातिदेशादाग्रेयधर्मप्राप्ताव शास्यति, न तु विध्यन्तस्मुत्थापयतीतिभावः । अपूर्व्वाङ्गानामपीति । पूर्व्वस्मिन् प्रकृतावप्राप्तानि अपूर्व्वाणि तथाविधानामङ्गानां प्रयाजे कृष्णालं जुहोतीत्यादिश्रुत्या सौर्य्ययागविशेषे विहितानां कृष्णलहीमादीना मितार्थः ।
अपिकारादतिदेशप्राप्तप्राकृताङ्गानाञ्च ।
विनियोगासम्भवादिति।