________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५८
अर्थसंग्रहः ।
. उभयाकाङ्क्षा प्रकरणम्। यथा प्रयाजादिषु समिधी यजतीतादौ वाक्ये फलविशेषस्यानिर्देशात् समिदयागेन भावयेदिति वोधानन्तरं किमितास्त्युपकायाकाङ्क्षा ।
पाठ वाकात्वानुपपत्तेरितिभावः । दर्शाङ्गत्वं दर्शयागस्य वाङ्गत्वम् । एवकारगर्भवात् न पुनरंशविशेषसाहित्यराहित्याभ्यां दर्शपौर्णमासीभययागाङ्गत्वमिति व्यवच्छिनत्ति मखिति । दर्शपौर्णमासाङ्गत्वमिति । इन्द्राग्नी इत्यशविशेषसाहितान दर्शयागाङ्गत्वं तदंशराहितान पौर्णमासाङ्गत्वं प्रकरणवोधितमेवं नेत्यर्थः । इदम् प. लक्षणम् । अग्रीषोमाविदं हविरित्याभ्रेकवाकावात् पौर्णमासाङ्गत्वं, न तु प्रकरणाद्दर्शपौर्णमासाङ्गत्वमित्यप्युदाहाय॑म् ।
प्रकरणं लक्षयति उभयाका ति। अङ्गाङ्गित्वेनाभिमनयीः परस्पराकात्यर्थः । उभयेतिकरणात् अन्यतराकाङ्क्षायाः प्रकरणत्व न स्यादिति दर्शितम्। तेन दर्शपौर्णमासाभ्यां खगं भावयेदिति खर्गभावनायाः कथमित्याकाझाया अनिवृत्ती पठितस्यापि अवगीरणभावसा न प्रकरणाद्दर्शपौर्णमासाङ्गत्व “यो ब्राह्मणायावगुरेत् तं शतेन यातया"दित्यादिवाकान फलवत्त्वाभिधानात् दर्शपौर्णमासौ प्रति तसााकाङ्गाविरहात् । एवं प्रकृतिवहिततिरित्यतिदेशेन विकृतियागीयफलभावनायाः कथमित्याकाशीपशमात् तदीयापूर्वाङ्गानामाकाहासत्त्वेपि न प्रकरणादकत्वं, किन्तु सानिध्यरूपस्थानादेवेति सिध्यति। उभयाकाङ्क्षा प्रदर्शयति यथेति । फलविशेषस्यानिर्देशादिति। वाक्य फलविशेषश्रुतौ प्रधानतैव स्थादत स्तदभावादङ्गत्वावश्यकतया उपकार्याकाझा सम्भवताबेतिभावः । किमितीति । किं भावयेदितापकाऱ्यांकाझाऽस्तीत ग्रन्वयः । उपकार्यस्य फलजननसमर्थोकर्तव्यसा कसाचित् प्रधानयागसा भाव्यत्वे नाकाझा अस्तीत्यर्थः । निष्फलतया समियागेन अमुकयागं भावयेदिति प्रधानयागविशेषस्यैव भाव्यत्वावश्यकत्वात्। सन्निहितयागविशेषेणैव भावनान्वयादुपपत्तौ विश्वजिन्नवायात् वर्गस्य भाव्यत्वकल्पनायां गौरवाचेति भावः । नन्वेवं विश्वजिता यजेतेत्यवापि तदव्यवहितपूर्वोपदिष्टयागविशेषसीव भाव्यत्वमस्तु अलमानुमानिकखर्गकल्पनयेति चेन्न । तदव्यवहितपूर्वोपदिष्टयागविशेषसा
For Private And Personal