________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः।
ञ्चारणम्। यथा यस्य पर्णमयो जुहूर्भवति न स पापं श्लोक शृणोति। अत्र पर्णताजुह्वोः समभिव्याहारादेव पर्णताया जुबङ्गत्वम् । नचानर्थक्यम्, अन्यथापि जुदाः सिद्धत्वादितिवायम् । जुहूशब्देन तत्साध्यापूर्वलक्षणात्। तथाच वाक्यार्थः पर्णतया अवत्तहविद्वारणहारा जुह्वपूर्व भावयेदिति । एवञ्च पर्णतया यदि जुहूः क्रियते तदैव तत्साध्यमपूर्व भवति नान्यथेति गम्यत इति न पर्णताया वैयर्थम् । अवत्तहविहारणघटितत्वं सति तात्पर्य लम्भशेषशेषिभाववीधकपदयोः सहीञ्चारण मिति निष्कर्षः । तदुदाहरति यथेति। यसति। यस्य यजमानस्य सम्बन्ध जुहूरईचन्द्राकृतिहोमसाधनपावविशेष: पर्णमयी पलाशवृक्षावयवसम्भूता भवति। पलाशे किंशुकः पर्ण इति विकाण्डौस्मरणात्। स पापं श्लोकं दुर्यशो न प्रणोती सार्थः। भव श्रुतौ। पर्णताजुह्वोः पर्णपदजुहू पदयोः। तात्पर्य्यलधशेषशेषिभाववोधकयो रितिशेषः । समभिववाहारात् सहोच्चारणात्। एवकारेण न कर्मत्वादिवोधकद्वितीयादिश्रुते पि लिङ्गादिभ्य इति दर्थितम्। पर्णतायाः. पलाशकाष्ठस्य । जुहगत्वं जुहूपकारकत्वम्। __ननु यदि जुहू पकारकत्वं तज्जनकत्वं तर्हि पर्णताविधानमनर्थकम् । काठान्तरसापि तज्जनकत्वसम्भवादितवानर्थक्यापत्तिं निराकरोति न चेति। भानर्थक्यम् पर्णताविधानसप्रतिशेषः। अन्यथापि काष्ठान्तरेणापि। सिद्धत्वात् निष्पन्नत्वात् । निराकरणे हेतुमाह जुहशब्देनेति । तत्साध्येति। जुहूकरणकहोमसाध्ये तार्थः । अपूर्वलक्षणादिति। यद्यपि पर्णमयी जुहूर्भवतीति वाक्यं जुडूपदसा नुहपूर्वलक्षणायां पर्णमयत्वान्वयानुपपत्ति स्तथापि पर्णताजुलीः सहोचारणवलेन पर्णतया जुहूं कुर्य्यादिति यत् श्रुतिवाक्यम् कल्पनीयं तवं व जुहूपद जुलपूर्वलक्षणाभिप्रेतेति बोध्यम् । अतएव तहाक्यार्थमेव दर्शयति तथाचेति। अवत्तेति । अवत्तम् चरुपावादवदायीत्यापितं यद्धविश्वरुरूपं तसा धारणदारतार्थः । जुह्वपूवं
For Private And Personal