________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
२६१
अन्ये तु उपसंहारो नाम सामान्यतः प्राप्तस्य विशेषे सङ्कोचनरूपो व्यापारविशेषो विधेः । पयंदासस्तु
पर्युदासः स विज्ञेयो यत्रोत्तरपदे न नञ् इत्यभियुक्तो त्या प्रत्ययातिरिक्तेन धातुना वा नाम्ना वा नजः सम्बन्धः। अतोऽनयोस्तावत् स्वरूपतः स्पष्ट एव भेदः । ___ एवं सत्यप्यभेद आशयेत यदि यत्र पर्युदासो विहितस्तत्रावश्यमुपसंहारः स्यात् । न चैतदस्ति, नेक्षेतोद्यन्तमादित्यमित्यादौ सत्यपि तस्मिन् उपसंहाराभावात् । नहि तत्राग्ने य. चतुर्दाकरणमिव सामान्ये प्राप्तं किञ्चित् विशेषे सङ्कोच्यते । पापक्षयोद्देशनानीक्षणसङ्कल्पमात्रविधानात् ।
प्रकृतोदाहरणे तु यजिसामान्ये प्राप्तस्य येयजामहस्य अनुयाजव्यतिरिक्तषु सङ्कोचनात् यदि विधरुपसंहारविधित्वं भवति, नैतावता किञ्चिविरुध्यते। विध्यभावे कथं विधिकार्यमुप
वाक्यं नत्र पदघटितम् । तथा उपसंहारे सङ्कोच कवाक्यघटकपदविशेषयोध्यपदार्थविशेष. निष्टतया सामान्य वाक्य प्य सङ्गोचः, पर्युदासस्थले तु सङ्कीचकवाक्य घटकपद विशेषबाध्य पदार्थविशेषतरनिष्ठ तथा सामान्यस्य सङ्कोच:। एवमुपसंहारस्थले यत्किञ्चित् खल्पविषय. सया सामान्यस्य सङ्कोच:, पर्युदासे तु यत्किञ्चिदितरनिखिलविषयतया सामान्यस्य सोच इत्येतावान् भेद इति भावः ।
सिद्धान्तान्तरमाह अन्ये विति। विशेषे सङ्कोचरूपः, विशेषविषयकत्वज्ञानानुकूलस्वरूपः । पर्युदासपदार्थमाइ पर्युदासस्विति ।'
एवं सत्यपौति । खरूपतः स्पष्टभेदै सत्यपौत्यर्थः । अभेद आशयेत, अभेद भाशङ्कनौय: स्यात्, भवतामिति शेषः । स्पष्टभेदेऽपि प्रभेदाशङ्का किम्पकारत्वे घटत इत्यवाह यदौति । यत्र पर्युदासः यत्र यत्र पर्युदासः । तथाच यत्र यत्र पर्युदासः स्यात्, तत्र तत्रैव यद्यवश्यमुपसंहार: स्यात्, तदा भवतामाशङ्का सम्भवेदिति भावः । नेतोद्यन्तमादित्यमित्यादौ व्यभिचारान्न तथाङ्गीकार्यमित्याह न चैतदिति ।
प्रकृतोदाहरणे मानुयाजेष्वित्यादौ। किञ्चिहिरुध्यते इति । एतन्मते धर्मयोरेव
For Private And Personal