________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न्यायप्रकाशः ।
भावात् ।
Acharya Shri Kailashsagarsuri Gyanmandir
यमते इष्टसाधनत्वं लिङर्थस्तम्भते लिङ्संसृष्टो नञ् इष्टसाधनत्वप्रतिपचमनिष्टसाधनत्वं गमयति । सर्व्वथापि तु नञः यदा तु तदन्वये किञ्चिद्दाधकं
२४७
प्राधान्यात् प्रत्ययेनान्वयः । तदा अगत्या धात्वर्थेनान्वयः ।
तच्च बाधकं द्विविधम् । तस्य व्रतमित्युपक्रमो विकल्प - प्रसक्तिश्च । अनेन बाधकद्वयेन नञ्युक्तेषु वाक्येषु पर्युदासाश्रयणं भवति, तदभावे निषेध एव |
पर्य्युदासः स विज्ञेयो यत्रोत्तरपदे न नञ । इति |
निषेधरूपप्रमाणइयजन्य प्रमितिविषययोः प्रवृत्तिनिवृत्त्योर्भेदः । विधौ स्वर्गकामादिरूपीऽधिकारी निषेधे च प्रवृत्तिमानित्यधिकारिभेदः । बोधकभेदी नञ् पदासमभिव्याहृततत्समभिव्याहृतवाक्ययोर्भेदः । पञ्चधा पञ्चप्रकारेण । अत्यन्त भिन्नत्वाल्लेशतोऽप्यैक्या
For Private And Personal
लिङúमिष्टसाधनतां मन्यमानानां नैयायिकानां मतेऽपि नत्र पदसमभिव्याहारस्थले नञर्थस्य लिङथेन सहैवान्वय इत्याह यन्मते इति । सर्व्वधा उभयमतेऽपि । नत्र इति । प्रत्ययेनान्वय इति सम्बन्धः । प्राधान्यात् प्रत्ययस्य विशेष्योभूतार्थप्रकाशकत्वात् । यदा पुनर्नञर्थस्व विशेष्यौभूतार्थेनान्वयबाधस्तदा विशेषणोभूतार्थेनाप्यन्वयः । सविशेषये हि विधिनिषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाधे इति न्यायादित्याह यदा त्विति । श्रगत्येति । तथाच मक्कतिप्रत्ययौ प्रकृत्यर्थ विशिष्टं प्रत्ययार्थं सह ब्रूत इति नियमात् प्रकृतिप्रत्ययार्थयोरन्तराले पदार्थान्तरान्वयानौचित्येऽपि बाधक बलात् गत्यन्तराभावेन वदन्तराले नर्थान्वयोऽभ्युपगन्तव्यो न तु मत्यन्तरसम्भवे तत्रियमभङ्गोऽङ्गीकार्य इति
भावः ।
किं तद्दाधकमित्यचाह तच्चेति । तथाविधस्थले कीदृशी वाक्यार्थ इत्यत्राह अनेनेति । नत्रयुक्तेषु नत्र पदसमभित्र्याइतेषु । पवृंदासाश्रयणमिति । पर्य्युदासरूपोऽर्थ श्राश्रयसोय इत्यर्थः । तदभावे बाधकाभावे । उत्तरपदे लिपदे । म नञ न नञ पदातथाच यत्र यत्र लिङथेंतरच नञर्थान्वयस्तत्र तत्र वाक्ये पर्युदास एवार्थ इति
न्वयः ।