________________
Shri Mahavir Jain Aradhana Kendra
२४६
www.kobatirth.org
न्यायप्रकाशः ।
सर्व्वत्र निषेधेषु निवर्त्तनैव वाक्यार्थः । एवच्च विधिहननादिवर्जन कर्त्तव्यता
Acharya Shri Kailashsagarsuri Gyanmandir
निषेधयोर्भिन्नार्थत्वं सिद्धं भवति ।
वाक्यार्थ पक्षे तु कर्त्तव्यताया एवोभयत्र प्रतिपाद्यत्वात्तयोरेका
त्वं स्यात्, तच्च न युक्तम् । यथाहु:
अन्तरं यादृशं लोके ब्रह्महत्याश्वमेधयोः । दृश्यते तवेदं विधानप्रतिषेधयोः ॥ इति । तथा - फलवुद्धिप्रमेयाधिकारिबोधक भेदतः ।
-
पञ्चधात्यन्त भिन्नत्वाद्विदो विधिनिषेधयोः ॥ इति ।
उपसंहरति अतश्चेति । भिन्नार्थकत्वमिति । प्रवर्त्तनानिवर्त्तना वोधकत्वादिति भावः । नञर्थेन धात्वर्थान्वयात् हननाद्यभावस्य कर्त्तव्यताबोधकत्वपचे तु भित्रार्थत्वं न सम्भवतीत्याह हननादीति । एकार्थत्वमिति । तथाच विधिनिषेधत्वेन पारम्परीणः पृथग्विभागो ना स्यादिति भावः । ननु यो विधित्वमिष्टमेव । पृथग्विभागस्तु नच पदासमभिव्याहारतत्समभिव्याहाराभ्यां संज्ञाभेदादित्यत चाह तचेति । अयुक्तत्वं प्रमापयति यथाहुरिति ।
"
अन्तरमिति । ब्रह्महत्याश्वमेधयो निषेध्यविधेययोरिति शेषः । इदम् चन्तरम् । तथाच विधिनिषेधयोर्द्वयोरेकार्थत्वे श्रश्वमेधादेखि ब्रह्महत्याद्यभावस्यापि विधेयत्वे अव मेधादेर्विधयत्वं ब्रह्महत्यादेस्तु निषेध्यत्वं नोपपद्यते । निषेध्यपदेनापि भवन्मते निषेधविधिबोधितत्वेन ब्रह्महत्याद्यभावस्यैव निषेध्यत्वापतेः । अमनाते तु यथा यागेनेट पति प्रति प्रवर्तेतेति विध्यर्थेन इष्टोत्पत्तेः प्रवृत्तिजन्यत्वस्य बोधनात् वत्करणस्यापि यागस्य प्रवत्तिजन्यत्वस्य बोधितत्वेन यागस्य विधेयत्वम् । तथा ब्रह्महत्यया इष्टोत्पत्तितो निवर्त्तेति निषेधवाक्यार्थेन इष्टोत्पत्तेर्वज्जनीयत्वस्य बोधितत्वेन तत्करणस्यापि ब्रह्महननस्य वज्र्जनीयता यह बोधितत्वात् ब्रह्महननस्य निषेध्यत्वं सुघटम् । विधिनिषेधवाक्यजन्यबोधविषयस्यैव विधेयनिषेव्यत्वादिति भावः ।
तथाच
प्रमाणान्तरेणापि विधिनिषेधयोर्भेदं साधयति तथेति । फलेति । विधेयनिषेध्ययो: फलभेदः खर्गनरकादिरूपः । बुद्धिभेदः कर्त्तव्याकर्त्तव्यत्वप्रकारेण निश्चयभेदः | जेत्युक्त यागस्य कर्त्तव्यत्वप्रकारा बुद्धिर्न हन्यादित्युक्ते च हननस्या कर्त्तव्यत्वप्रकारा | न पुनर्द्धननाभावस्य कर्त्तव्यताबुद्धिः श्रुतिमात्रेण जायत इति भावः । प्रमेयमेद: विधि
For Private And Personal