________________
Shri Mahavir Jain Aradhana Kendra
२४ ०
www.kobatirth.org
न्यायप्रकाशः ।
Acharya Shri Kailashsagarsuri Gyanmandir
वैश्वदेवशब्दो विश्वदेवकर्त्तृकत्वेन कर्माणि प्रकृत इति ज्ञायते । तत् देवतासमर्पकत्वेन विरुध्यते ।
किञ्च वैश्वदेवेन यजेतेत्यस्य यागविधित्वे आमिक्षाया नोत्पत्तिशिष्टत्वम् । तथाच तया न वाजिनं बाधितुं शक्यत इति उभयोरप्यामिक्षावाजिनयोर्यागाङ्गत्वं स्यात् । तथाच विकल्पः |
स चाष्टदोष इति ।
तच्च वैश्वदेवेन यजेतेत्यस्य नामधेयविधायकत्वाङ्गीकारे तयागस्य वैश्वदेवनामकत्वप्रसिद्धेः सविषयं स्यात् । वैश्वदेवेनेत्यस्य देवतासमर्पकत्वे तु तस्य तन्नामकत्वानङ्गीकारादर्थवादः कमपि यागविशेषं नालम्बितुं शक्नोति । वैश्वदेवन वनामक यागान्तरानुपलब्धेरिति ।
प्रकृतः प्रसिद्धः । तत् वैश्वदेवशब्दस्य कर्मविशेषे प्रसिद्धत्वेन ज्ञानम् । देवतासमपकत्वेन वैश्वदेवेन यजेतेत्यस्य श्रामिचाया गदेवताबोधकत्वेन | विरुध्यते प्रतिबध्यते । तथाच वैश्वदेवशब्दस्यार्थवाद बोधितक विशेष प्रसिद्धतया ज्ञानं निर्विषयतया उच्छिद्यत इति भावः ।
दोषान्तरमप्याह किश्चेति । यागविधित्त्वे यागस्योत्पत्तिविधित्वे । उत्पत्तिशिष्टत्वमुत्पत्तिविधिबोधितत्त्वम् । तथात्वाभावे दोषमाह तथाचेति । तया श्रमिचया । श्रबाचने हेतुमाह उभयोरेवेति । यागाङ्गत्वमिति । वाजिभ्यो वाजिनमित्यनेन वाजिनस्यापि वाजिपदाभिधेय विश्वदेवसम्प्रदान कत्वाभिधानादिति भावः । प्रबाधे को दोष इत्यत चाह तथाचेति । विकल्पे दोषमाह स चेति ।
अत्र द्वितीयाध्याय द्दितीयपादे देवताभेदकृत कम भेदाधिकरणे सिद्धान्ती यथा । चातुयागप्रथमपर्व्वणि तप्ते पबसि दध्यानयति सा वैश्वदेव्यामिचा वाजिग्यो वाजिनमिति श्रूयते । अत्रामित्तावशिष्टं जलं वाजिनम् । वाजिपदेनापि प्रकृता विश्वे देवा उच्यन्वे । वाजेनान्नेनामिचारूपेण सम्बद्धा वाजिन इति व्युत्पत्तेः । तदुक्तं भट्टपादैः
अनन्तरोपदिष्टेन वाजेनान्नेन वाजिनः ।
विश्वेदेवाः प्रतीयन्ते तच्च कह वाजिनम् ॥
श्रत्र संशयः । किमामिचाद्रव्य के विश्वदेवयागे वाजिनगुणी विधोयते, वाजिनद्रव्यकं विश्वदेवयागान्तरं वेति । तत्र वाजिनपदेन विश्वान् देवान् अनूद्य श्रमिक्षायाग एव वाजिनद्रव्यं विधीयताम् । तच्च द्रव्यमामिचया समुच्चयतां विकल्प्यतां बेति पूर्वपचे
For Private And Personal