________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
ननु पशुसोमाधिकरण ऐन्द्रवायवं गृह्णातीत्यादौ न यजिकल्पनं सोमेन यजेतेति प्रत्यक्षयजिश्रुते रित्युताम् । तेन तेन न्यायेन वैश्वदेव्यामिक्षत्यत्रापि यजिकल्पनं मास्तु । वैश्वदेवेन यजेतेत्यत्र प्रत्यक्षयजिश्रुतेः। एवञ्चानेन वाक्येन देवताविशिष्टकम्मविधानमस्तु । तस्य च द्रव्याकाझायां वैखदेव्यामिक्षेति द्रव्य विधानमस्तु । एवञ्च न वाक्ययस्थाप्यनुवादत्वम् । नाप्यष्टौ हवींषोत्यनन्यगतिकलिङ्गविरोधो भवेदिति चेन्मैवम् ।
वैखदेव्यामिक्षत्यत्र यज्यकल्पने आमिक्षा किमनुवादेन विधीयत इति वक्तव्यम् । विश्वदेवानुवादेन विधाने द्रव्यस्य देवताङ्गत्वमेव स्यात्, न यागाङ्गत्वम्। किञ्च वैश्वदेवीशब्दो
पक्षनिरासार्थं न तु नामधेयत्वार्थम् । नामधेयत्वनिमित्तन्तु तत्प्रख्यशास्त्रमैवेति भावः । वैश्वदेवेन यजेतेत्य स्य गुणविधायकत्वनिरासेन तत्प्रख्यशास्त्रमूलकनामधेयप्रतिपादकत्वसिद्धान्त मुपसंहरति तत्सिद्धमिसि ।
दानौं वैश्वदेवेन यजेतेत्यस्य प्रधाविधित्वमाशङ्गते नन्विति। पशुसीमेति । दिती-- याध्यायहितौयपादस्थे पश्सीमापूर्वताधिकरणे इत्यर्थः । ऐन्द्रवायवमिति । अवायमाशङ्कार्थः । ज्योतिष्टीमे सोमेन यजेते ति श्रूयते। तत्प्रकरणे ऐन्द्रवायवं ग्टह्णातीति श्रुतिरस्ति । तत्र यजि श्रुतिविरहात् यजिकल्पनं स्यान्न वेति संशये सोमेन यजेनेति प्रत्यक्षश्रुतिबोधितयागप्राप्तेन यजेतेति कल्पनं किन्तु सोमन. यजेतेति प्राप्तसीमस्यैव ऐन्द्रबायवग्रहणेन संस्कार विधायकमैन्द्र वायववाक्यम् । तथाचोक्त न्यायमालायाम् --
___ “ग्रहणवाक्यैस्तु देवताविशिष्टः सोमसंस्कारो विधीयत इति ।" लइदैश्वदेव्यामिरेत्यत्रापि न यागविधानं यजिश्रवणाभावात्। किन्तु, वैश्वदेवेन यजैतेत्यु क्तायागस्यैव वेश्देव्यामिति द्रव्यविधायकम् । एवञ्च वैश्वदेवेन यजेते ति वाक्यमेव विश्वदेवीद्देश्य कयागविधायकः प्रधानविधिः। वैश्वदेव्यामिक्षेति वाक्यन्तु प्रधानविधौ द्रव्याकाचायामामिक्षारूपद्रव्यविधायकमस्तु । तथा सति न वाक्ययायथ्यं नाम्यष्टौ हवींषौति मन्त्रलिङ्गविरोध इति। पाशङ्कां निरस्थति मैयमिति ।
देवताङ्गत्वमिति । यद्धि यदनुवादेन विधीयते तस्य तदङ्गत्वमिति नियमादिवि
For Private And Personal