________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२३६
न्यायप्रकाशः।
न च विधिरेव तत्प ख्यशास्त्र नार्थवाद इत्यत्र किञ्चित्यमाणमस्ति । अतएव ज्योतिष्टोमन स्वर्गकामो यजेतेत्यत्र ज्योतिष्टोमशब्दस्तानि वा एतानि ज्योतींषि य एतस्य स्तोमा इत्यर्थवादावगतं ज्योतिःसम्बन्ध निमित्तीकृत्य सोमयागे प्रवर्त्तमानस्तत्पख्यशास्त्रानामधेयं भवति । एवं प्रकृतेऽपि द्रष्टव्यम् । पञ्चमःप्रकारकल्पने प्रमाणाभावात् ।
अतएव वैखदेवाधिकरण वार्तिककारैरेवमुपसंहृतं “तत्यख्यनयैव सर्वेषां नामधेयत्वमिति”। यच्चोत्पत्तिशिष्टगुणबलीयस्त्वमुक्तं तद्गुणविध्यभावे युक्त्यभ्युञ्चयमात्रम् । तसिङ्घ तत्पख्यशास्त्रा. देखदेवशब्दस्य कर्मनामधेयत्वमिति ।
देवेन यजेतेति वैश्वदेव शब्द ल्या उत्पत्तिशिष्टाग्न्यादिदेवतावरुद्धानेययागादौ विश्वदेवदेवता विधायकत्वानुपपत्या परिशेषादामिक्षायाग एव तदेवताविधायकत्वाङ्गीकारे वैश्वदेवीमामिशामिश्वस्य तद्गण प्रापकणास्त्रान्तरस्य सत्त्वात् तत्प्रख्य न्यायेन नामधेियत्वम् ।
इत्थञ्च वैश्वदेवीमामिक्षामित्यस्यैव प्रकले. तत्प्रख्यशास्त्रलं न तु विश्वे देवाः समयजन्ते. अर्थवादस्य । तदर्थ वादन यहिश्वदेवकृतत्वं प्रत्याय्यते तदानेयादियागसदस्य वैश्वदेवनामकत्वे निमित्त मिति। एवमेव शास्त्रदीपिकाकारादौनामभिप्रायः ।
पर्थवादस्य तत्प्रख्यशास्त्रतानभ्यु पगमवादं निराकरांति न चेति। विधेरिवार्थवादस्थापि शास्त्रत्वाविशेषादिति भावः । अर्थवादस्यापि तत्प्रख्यशास्त्रतां दर्शयति अतएवेति । तानि वेति । एतस्य यागस्य ये स्तोमा: स्तीमाख्यसामविशेषास्तान्येतानि ज्योतीषीत्यर्थः । तत्प्रख्यशास्त्रादिति । तथाच ज्योतिष्टीम प्रब्दस्य ज्योतींषि स्तीमा यति व्युत्पत्त्या न ज्योति सम्बन्धविधायकत्वं ज्योतिःसम्बन्धविधायकस्य तानि वा एतानौति शास्त्रान्तरस्य संत्त्वात्। तस्मान्नामधेयत्वमेवेति भावः । पञ्मेति। मामधेयनिमित्तानामिति शेषः ।
अत्र वार्तिककारम्वरसमाह अतएवेति। सर्वेषाम् पाने यादीनामष्टानां यागानाम्। ननु तर्हि वैश्वदेवाधिकरणे सूत्रभाष्य काराभ्यामुत्पत्तिशिष्टगुणबलीयस्त्वमुक्तं किमर्थमित्यवाह, यक्षेति। उक्तं विचारितम् । मूत्रभाष्यकाराम्यामितिः शेष: । गुणविध्यभाव इति । नयाच पाग्ने यादियागसप्तके अग्न्यादिभिः सह विश्वेषां देवानां वैकल्पिकदेवतागुणविधान,
For Private And Personal