________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२३२
न्यायप्रकाशः।
वाक्यवैयापत्तेः । वैखदेवशब्दस्यामिक्षायागमात्रनामले स एव यागोऽननानुद्यत इति वाच्यम् । न च तदनुवादे नास्ति . किञ्चित् कृत्यम्। प्राचीनप्रवणे वैश्वदैवेन यजेतेति विधीयमानस्य प्राचीनप्रवणदेशस्य विनाप्येतद्दाक्यमामिक्षायागसम्बन्धोपपत्तेः, विश्वदेवसम्बन्धात्तस्य।
वैश्वदेवशब्दस्येति स एव प्रामिक्षायाग एव । अनेन वैश्वदेवेन यजेतेत्यनेन । वाच्य भवतेति शेषः । तदनुवादन आमिक्षायागमन द्य तस्य वैश्वदेवनामकत्वविधानेन । कत्यं प्रयोजनम् ।
ननु प्राचीनप्रवणे वैश्वदेवेन यजेतेति श्रुत्यन्तरमस्ति । सेन वैश्वदेवयागमनूद्य यजमानस्य प्राङिमदेशवर्तित्वं विधीयते न तु वैश्वदेवयागी विधीयते । तत्र वैश्वदेवपदन चामिक्षायागोपस्थानमेव श्रामिक्षायागस्य वैश्वदेवनामकत्व विधानप्रयोजनमस्तीत्यत आह प्राचीनेति । एतडाक्यम् भान यादियागाष्टकोपक्रमे श्रूयमाणं वैश्वदेवेन यजेतेति वाक्यम् । यस्य भवता पामिहायागनामधेयत्वमभ्युपगम्यते । तदाक्यं विनापौत्यर्थः। श्रामिक्षायागसम्बन्धेति । पाचौनप्रवणदेशविधायक वाक्ये वैश्वदेवपदनामिक्षायागीपस्थानोपपत्ते रित्यर्थः ।
ननु वैश्वदेवेन यजैतति संशाविधायकश्रुतिमन्तरेण श्रामिक्षायागस्य वैश्वदेवसंज्ञकत्वाजवगमात् कथं तत्र प्राचीनप्रवणे वैश्वदेवेन यजेतति युतिविहितप्राचीनप्रवणदेशसम्बन्ध उपपद्यत इत्यस आह विश्वदेवेति । तस्य आमिक्षायागस्य वैश्वदेवौमामिक्षामिति श्रुत्या विऋदेवदेवतासम्बन्धादित्यर्थः ।
तथाच याविशेषस्य नामविशेषकरणस्यैतदेव प्रयोजनं यत् तन्नामधेया लेखेन थुत्यन्तरविहितस्य धर्मस्प तयागविशेष एध सम्बन्धः स्यादिति । एवञ्च वैश्वदेवयागीलखे न श्रुत्यनरविहितस्य प्राचीनप्रवणदेशस्य श्रामिदायागसम्बन्धी यदि श्रामिक्षायागस्य वैश्वदेवनामकत्व प्रतिपादनमन्तरेण न स्यात्तदा तस्य वैश्वदेवनामक त्वप्रतिपादक वैश्वदेवेन यजेतेति वाक्यमर्थवत् स्यात् । यदि तु तस्य तमाम कवविधान विनापि वैश्वदेवपदोल्लेखन विहितस्य प्राचीन प्रवणदेशस्य सम्बन्धः सुघट: स्यात्तदा सुतरां तस्य तन्नामकत्व प्रतिपादक वाक्यं व्यर्थ स्यादिति मन्तव्यम् । एवञ्च आमिक्षायागस्य वैश्वदेवौमामिक्षामिति श्रुतिबीधित्त विश्वदेवदेवताकत्वेन वैश्वदेवपदीपस्थाप्यत्वं नामधेयबोधक वाक्याभावऽपि सम्भवतौ व तहाक्यं व्यर्थ स्यादिवि सुव्य कोऽभिमायः।
For Private And Personal