________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२३०
न्यायप्रकाशः।
यद्यपि सूतहविषोरिति स्मृतेः सूक्ते हविषि वा मुख्यत्वमवगतम् । तथापि सर्वनाम्नामुपस्थितवाचित्वात् सूतहविषोचात्रानुपस्थितत्वात् यजेतेत्युपस्थितं यागमेवास्यशब्दोऽभिधत्त इति न याग मत्वर्थलक्षणा। विखदेवरूपैकदेवताविधानाच न वाक्यभेदः । ___ नापि तत्प्रख्यशास्त्रानामधेयत्वम् । यत्र हि विधिसितो गुणोऽन्यत: प्राप्त: तत्र तत्प्रख्यशास्त्रानामधेयत्वम् । यथा अग्निहोत्रशब्देन । अत्र चाग्ने यादयो अष्टौ यागाः प्रक्षताः। तत्रा. मिक्षायागे यद्यपि विखे देवाः प्राप्ता वैश्वदेव्यामिक्षेति, तथापि
सूक्तमित्यपि व्यवडियते । तस्य चानादिप्रयोगयोगित्वेन निरूढ़तया मुख्यातुल्यत्वादाह. सूक हविषोरितिः। अतएव काशिकायामुक्तम्
यागसम्प्रदानं देवता, देयस्य पुरोडाशादः स्वामिनी । तस्मिन्नभिधेये प्रत्ययः ।
इन्द्री देवतास्य ऐन्द्रं हविः । मन्त्र स्तुत्यमपि देवतेत्युपञ्चरन्तीति । मनु देवतापदनिर्देशात् अस्येति सर्वमाम्रो यः कचिदुपस्थिती न ग्राह्यः। किन्तु भूत हविषौ एवेत्यत आह सूक्तहविषोश्चाचेति । अनुपस्थितत्वात् तदर्थपरत्वासम्भवात् । यागमेवेति । तथाच शिष्टप्रयोगदर्शनाद्देवताण्दस्य मन्त्रस्तुत्योपचारवत् यागीणनीयोऽप्युपचरणीयः । तेन विश्वे देवा देवता प्रौणनीया यस्य यागस्येति व्युत्पत्त्या वैश्वदेवपटं. यागबोधकमपि भवितुमर्हति। अतएव प्रयोगदृष्ट्या उपास्येऽप्युपचारात् शिवो देवता उपास्यो यस्येति शैव इत्यादिप्रयोगाः प्रसिद्धा इति भावः ।
मत्वर्थ लक्षणाया अप्रसक्तिं प्रदर्श्य. वाक्यभेदप्रसक्तिञ्च परिहरति विश्वदेवरूपेति। एकदेवतेति । अग्नये च प्रजापतये चेत्यादाविव न देवताच्यविधानप्रसङ्ग इति भावः ।
तत्प्रख्यशास्त्राविषयत्वमपि प्रतिपादयति नापौति। पत्र चाग्ने यादयः इति । अत्रायं. विस्तरः। चातुर्मास्ययागस्य चत्वारि पर्वाणि । वैश्वदेवो वरुणप्राधास: शाकमेधः सुनासोरीयश्शेति । तेषु प्रथमपर्वणि अष्टौ यागा विहिताः। भाग्ने यमष्टाकपालं निर्वपति, सौम्यं चरुम्, सावित्रं हादशकपालम्, सारखतं चरम्, पौणं चरुम्, मारुतं. सप्तकपालम्, वैश्वदेवीमामिक्षाम, द्यावापृथिव्य मैककपालञ्चेति ।
For Private And Personal