________________
Shri Mahavir Jain Aradhana Kendra
२१६
www.kobatirth.org
न्यायप्रकाशः ।
Acharya Shri Kailashsagarsuri Gyanmandir
यत्त्वग्ने मन्तिवर्णिकत्वे प्रजापतिविधेरेकेनैव वाक्येन सिद्धेरग्नये च प्रजापतये च सायं जुहोति यत्सूर्य्याय प्रजापतये च प्रातर्जुहोतीति वाक्यद्दयं व्यर्थमेवेति । तत्र भवेद्यथें यदि प्रजापतिमात्रविधानं विवचितं स्यात् । सायंहोमे अग्निसमुचितप्रजापतिविधानम् । प्रातर्होमे सूर्यो ज्योतिज्योंतिः सूर्यः स्वाहेति मन्त्रवर्णप्राप्तसूर्य समुचित प्रजापतिविधानश्च विवक्षितम् । न चैतदेकेन वाक्येन सिध्यति । अतोऽर्थवाक्यद्वयम् ।
यत्त्वग्ने मन्त्रवर्णकत्वे मन्त्रवर्णस्य अग्निज्योतिज्र्ज्योतिरग्निः स्वाहेति सायं जुहोतीति वाक्येन सायंहोमे विनियुक्तत्वात् तत्
अपरे तु यदि मन्तवर्णात् सायं होमे अग्निर्लभ्यते तदा प्रातहोंनेऽपि मन्तवर्णलभ्यत्वेन प्रजापतये सायं प्रातर्जुहोतीत्येकेनैव वाक्येन प्रजापतिमात्रविधानात् विवचितार्थसिद्धौ सायंप्रातर्भेदेन वाक्यद्दयमनर्थक मित्यापादयन्ति तदपि निराकर्तुमाह यत्त्विति । प्रजाप्रतिविधेः प्रजापतिविधानस्य । निराकरोति तन्नेति । भवेद्दार्थमिति । यदग्नये च प्रजापतये चेति वाक्ये यदि निरपेचप्रजापतिविधानं विवचितं स्यात् तदा वाक्यइयं व्यर्थं भवेत् । एकेनैव प्रजापतये जुहीतीति वाक्येनोभयत्र प्रजापतेर्देवतात्व लाभादिति भावः ।
तर्हि किं विवचितमित्यत्राह सायंहोमे इति । देवतान्तरसमुचित प्रजापतिविधानम्य विवचितत्वे वैयर्थ्याभावं दर्शयति न चेति । एतदिति । सायं होमे प्रातहोंने च मन्तवर्ण प्रातदेवतान्तरसमुचितप्रजापतिविधानमित्यर्थः । अर्थवत् सार्थकम् । अन्ये तु यदि सायंहोमे अग्ने मन्तिवर्णिकत्वं प्रातर्होमे च सूर्य्यस्य तथात्वं मन्यते सदा विधौ सायंप्रात:पदमनर्थकम् । अग्नये च प्रजापतये च जुहोति सूय्यांय व प्रजापतये च जुहोतीत्येतावतैव विध्योः सायंप्रातर्विषयकत्वलाभात् । यस्मादभिप्रकाशक मन्तस्य सायं विनियुक्ततया तदवगताग्निसमुञ्चितप्रजापतेः सायं होमदेवतात्वं सुगमम् । तथा सूर्यप्रकाशक मन्तस्य प्रातर्विनियुक्तत्वेन तदवगत सूर्य समुचित प्रजापतेः प्रातर्होम देवतात्वमपि सुग्रहमेव ।
तथा मन्त्रलिङ्गेन ज्योतिष्टगुणविशिष्टयोरभिसूय्येयो देवतात्वावगमात् तत्समुचित प्रजापतिविधाने अङ्गीक्रियमाणे अग्निसूययोज्यौतिष्वविशिष्टयो देवतात्वमापद्यते । न च सत् सम्मतमित्यापादयन्ति तदपि खण्डयितुमाह यविति ।
For Private And Personal