________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न्यायप्रकाशः ।
Acharya Shri Kailashsagarsuri Gyanmandir
र्गतम् । त्यज्यमानद्रव्योद्देश्यत्वे सति प्रतिग्रहीतृत्वस्य सम्प्रदानत्वात् । अतश्चतुर्थीतः सम्प्रदानैकदेशतया देवतात्वप्रतीतिरस्त्येव । मन्त्रवर्णान्तु न देवतात्वं प्रतीयते किन्त्वधिष्ठानमात्रम् । अतश्च मन्त्रवर्णश्च तुर्थीतो दुर्बलः । यथाहु:तडितेन चतुष्या वा मन्त्रवर्णेन वा पुनः । देवताया विधिस्तत्र दुर्बलन्तु परम्परम् ॥ इति ।
२१३
---
For Private And Personal
विप्रादौ न देवतालक्षणातिव्याप्तिः । तस त्यज्यमानद्रव्योद्देश्यत्वञ्च । र्गतं सम्प्रदानलक्षणान्तर्गतम्, सम्प्रदानलक्षणैकदेश इति यावत् ।
1
किं तावत् सम्प्रदानलचणमित्यत्राह त्यज्यमानेति । प्रतिग्रहीतृत्वं प्रतिग्रहयोग्यतावत्त्वम् । एवञ्च इन्द्रादीनां प्रतिग्रहयोग्यत्वाभावेन न सम्प्रदानत्वम् । किन्तु त्यज्यमानद्रव्योद्देश्यत्वरूपसम्प्रदानलचणान्तर्गत धर्मविशेषवत्त्वमिति सिद्धम् । सम्प्रदानैकदेशतयेति । तथाच प्रजापतये जुहोतोत्यादौ चतुर्थी उद्देश्यतामात्रे निरूदलाचणिकोति प्रजापत्यादीनां न मुख्य सम्प्रदानत्वम् । किन्त्वनिराकर्त्तृक सम्प्रदानत्वम् । अतस्तेषां देवतात्वं कथञ्चिच्कन्दप्रतिपादितमेव । मान्ववर्णिकदेवतात्वस्य तु अनुमेयत्वमेव न शाब्दमित्याह मन्त्रवर्णाविति । मन्त्रस्यशब्दात्वित्यर्थः । एतेनास्य शब्दापात्तत्वं नास्तीति दर्शितम् ।
तर्हि मन्त्रवत् किं प्रतीयत इत्यवाह किन्त्विति । अधिष्ठानमात्रं तन्मन्त्रे अग्निबोधकपदस्य विद्यमानतामात्रम् । प्रतीयत इत्यन्वयः । तथाच तन्मन्त्रे अग्निपदस्य विद्यमानत्वात् यद्यसौ मन्त्रः अग्न्युद्देश्य कत्याग करणं न स्यात्तदा अस्मिन् मन्त्रे अग्निपदसत्तानुपपन्ना अन्धोद्देश्य कत्यागकाले अन्योद्देश्यताबोधकपदप्रयोगानौचित्यादित्यर्था पत्त्या, जयं मन्त्र: 'अग्न्युद्देश्य कत्यागकरणम् अग्रिमकाशकत्वात् भूः स्वाहेत्यादिमन्त्राणां भूराद्युद्देशक्यत्याग करणत्ववदित्यनुमानेन वा तन्मन्त्रस्याग्निदेवताकत्वं प्रतीयत इति भावः । अत इति । शब्दप्रमाणादनुमानादे दुर्बलत्वादित्यर्थः । तत्र मौमांसकसम्मतिमाह यथाहरिति ।
सम्प्रदानख रूपान्त
तद्धितेनेति । विधि: प्रतिपादनम् । तत्र तेषु मध्ये । परं परमिति । तद्धिताचतुर्थी दुबला, तद्धितस्य मुख्यवृत्त्या देवताबोधकत्वात् । चतुर्थ्याश्च लाचणिकच्या । चतुर्थीतो मन्त्रवर्णो दुर्बलः । लाक्षणिकत्वेऽपि चतुर्थीबोधितस्य शब्दबोधितत्वात् मन्दवस्य सत्कल्पकत्वादित्यर्थः ।