________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org न्यायप्रकाशः ।
Acharya Shri Kailashsagarsuri Gyanmandir
२०६
मानत्वेनाग्निहोत्रशब्दः कम्मैनामधेयमिति यावत् । तथाहि विधिना तावत्तदेव विधेयं यत् प्रकारान्तरेणाप्राप्तम् । अप्राप्ते शास्त्रमर्थवदिति न्यायात् । अग्निहोत्रशब्दस्य गुणविधित्वे यो गुणस्तेन विधेयः स शास्त्रान्तरेण प्राप्तः ।
कथमिति चेत् शृणु । यदि तावदग्नौ होत्रमस्मिनिति सप्तमोसनासमाश्रित्य होमाधारत्वेनाग्निर्विधेय इत्युच्यते तदा यदाहवनीये जुहोतीत्यनेनैव प्राप्तत्वाद्दिध्यानर्थक्यम् ।
अथाग्नवे होत्रमस्मिन्निति चतुर्थीसमासमाश्रित्य अग्निरूपदेवता अनेन समर्प्यत इति तत्र शास्त्रान्तरेण प्राप्तत्वात् । किन्तच्छास्त्रान्तरमिति चेत् । श्रत्र केचित् । यदग्नये च प्रजापतये च सायं जुहोतीति शास्त्रान्तरेण होमानुवादेनाग्नि प्रजापत्योविधानान्नाग्निहोत्रपदं देवतासमर्पकम् |
यावदिति । व्यक्तोऽर्थ इत्यर्थः । तत्प्रख्यशास्त्र सहावे गुणविधित्वं कुतो नेत्यतस्तद्दर्शयति तथाहति ।
विधेः प्रमाणान्तरप्राप्तविधायकत्वे हेतुमाह अप्राप्त इति । अप्राप्ते प्रमाणान्तरेणानवगते पदार्थे शास्त्रं तद्दिधायक वाक्यम् अर्थवत्मार्थकम् । तथाच प्राप्तांशविधायकशास्त्र मनर्थकमिति भावः । यो गुपोऽग्रिरूपः । तेन अग्निहोत्रं जुहोतीति वाक्येन । शास्त्रान्तरेण प्राप्त इति । तथाच तदिधायकत्वं विधेरानर्थक्यमिति भावः ।
२७
For Private And Personal
कथमिति । कथं प्राप्त इत्यर्थः । प्राप्तिं प्रतिपादयति खिति । होमस्याधार भूत: अग्निर्देवता वा भवता विधीयताम् उभययैव शास्त्रान्तरपरिप्राप्तत्वादानर्थक्यमिति प्रदर्शनाय आधे परिप्राप्तत्वं प्रतिपादयति यदि तावदिति । सप्तमीसमासं सप्तम्यन्तपदपूर्वकव्यधिकरणबहुव्रीहिसमासम् । प्राप्तत्वात् होमाधारत्वेनाग्रेः प्राप्तत्वात् ।
हितीयमाशङ्क्य निराकरोति श्रथेति । चतुर्थीसमासं चतुर्थ्यन्त पदपूर्वकव्यधिकरणबहव्रीहिसमासम् । निराकरोति तन्नेति । प्राप्तत्वात् अग्रे देवतात्वेनापि प्राप्तत्वात् । शास्त्रान्तरं पृच्छति किन्तावदिति । अत्र प्रश्ने उत्तरमाह अत्र केचिदिति । शास्त्रान्तरेण अग्निहोत्रयागप्रकरणोथेन । विधानादिति । देवताखेनेति शेषः । चतुर्य्या देवतात्वावगमात् ।
.