________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
विधाने वाक्यभेदात्। प्रकृतस्य यागस्य फलाकाझाया अनिवृत्तः। विखजिन्यायेन फल कल्पने गौरवम् ।
दधिमनित्याद्युत्पत्तिवाक्येनेतस्याधिकारवाक्यस्य प्रतिपन्नकवाक्यताबाधेन वाक्य भेदप्रसङ्गाच्च । चित्राशब्दस्य तु कम्मनामधेयत्वे प्रकृतस्य कम्मण: फलाकाङ्क्षस्य फलसम्बन्धमात्रकरणान वाक्यभेदः ।
प्रकृताया इष्टेरनेकद्रव्यकत्वेन चित्राशब्दस्य तबोपपत्तेः । तसिद्धं वाक्यभेदभयाचित्राशब्दः कम्मनामधेयमिति ।
अग्निहोत्रं जुहोतीत्यत्र अग्निहोत्रशब्दस्य कम्मनामधेयत्वं तप्रख्यशास्त्रात् । तस्य गुणस्य प्रख्यापकस्य शास्त्रस्य विद्य..
प्रकृतस्येति । यत्प्रकरणे चित्रया यजेत्यानातं तस्य प्राजापत्ययागस्वेत्यर्थः। ननु फलाकाञ्चायां प्राजापत्ये टेः स्वर्गफलकत्वं कल्पनीयं विश्वजिता यजेतेत्यवेवेत्यत माह विश्वजि. श्यायेनेति। गौरवम् अध्याहारकल्पनागौरवम् ।
पिच उत्पत्तिवाक्यस्य स्व प्रकरणीयवाक्यैः सह कवाक्यतै व न्याय्या। एवञ्च यदि प्राजापत्येष्टिप्रकरणपठितस्यापि चित्ररीति वाक्यस्य यागान्तरौयगुणनिधित्वं मन्यते तदा तेन वाक्येन सह प्राजापत्योत्पत्ति वाक्यस्य एक महावाक्यताविरहात् तदितरप्रकरणपठितवाक्यैरेव सह एकमहावाक्यत्वात् चित्रावाक्यस्य च सन्महावाक्य घटक त्वाभावादाक्यभेद: स्यादित्याह दधिमध्विति । नामधेयत्वपचे वाक्य भेदाभावं प्रतिपादयति चित्राशब्दस्येति ।
ननु प्रानापत्ये टेशिवानामकत्वं कथमुपपन्नमित्यत आह प्रक्तताया इति। चित्राशब्दस्थेति। नानाद्रव्यार्थ कलादिति भावः । वाक्यभेदभयनिबन्धनं नामधेयत्वमुपसंहरति तत्मिमिति ।
सत्प्रख्यशास्त्र वशानामधेयत्वं दर्शयति अग्निहोत्रमिति। नन्वयमग्निरूपगुण विधायको मनामधेयमियत आह तत्प्रख्यशास्त्रादिति । सं विधिमितगुणं प्रचष्टे वतीति तत्प्रख्यम् । तथाविधशास्त्रादित्यर्थः । तत्प्रत्यशास्त्रादित्यस्य स्वयमेवैतमथे व्यक्तं दर्शयति तस्येत्यादि ।
For Private And Personal