________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः । विधिश्चतुर्विधः । उत्पत्तिविधिर्विनियोगविधिरधिकारविधिः प्रयोगविधिश्चेति। तत्र कम्मस्वरूपमात्रवोधकोविधिरुत्पत्तिविधिः ।
यथा अग्निहोत्रं जुहोतीति। अत्र च विधौ कम्मण करणत्वेनान्वयः। अग्निहोत्रहोमेनेष्टं भावयेदिति ।
विधि विभजते विधिश्चतुर्विध इति । अज्ञातार्यज्ञायकत्वरूपविधित्वसा सानु - मतत्वेपि विभाजकोपाधिभेदात् परस्परं भेदः। अतो विभाजकीपाधिभेदं प्रतिपादयितुमाह त ति। तेषु विधिषु मध्ये इतार्थ: । उह शक्रमप्राप्तमुत्पत्तिविधिमाह कर्मखरुपैति । कर्मसो यत् स्वरूपं तन्मावसा वोधको ज्ञापको यो विधि: स उत्पत्चिविधिरितार्थः । उत्पत्ति: कर्मणः प्रवत्ति विषयताप्रयोजकप्राथमिकप्रतीतिः। साच कर्मणी नाममावनिर्देशन द्रव्यदेवताविशिष्ट कर्मनिर्देशन च सम्भवति। अतः कश्चित् कर्ममारवीत्पादक: कचिच्च विधिद्रव्यदेवताविशिष्टकर्मोत्पादकः। तयोरुभयोरपि कर्मखरूपमात्रज्ञापकत्वम्। नाममात्र निर्देशन द्रव्यदेवताविशिष्ट कर्मनिहें शेन च कर्मणः स्वरूपज्ञानसम्भवात् । अती मावपदं कर्मणः फलसम्बन्धव्यावर्तकम् । एवञ्च अग्रिहोत्र जुहोतीतादिविधेः आग्ने योऽष्टाकपालीऽमावास्यायामितयादिवि वेश्च कर्मस्वरूपज्ञापकत्वाविशेषादुत्पत्तिविधित्वम्। एतदेवीदाहरणेन दर्शयति अर्थति। एतच्च कर्ममाचीत्पादकविधप्रदाहरणम्। असा गुणविधित्वशङ्कामपाकर्तुमाह अवचेति। करणत्वेनेति पाखयातार्थभावनायामितिशेषः । तदेव दर्शधति अग्निहोत्रणेति। अग्निहोत्र' जुहुयात् स्वर्गकाम इताधिकारविधिना स्वर्गरूपफलविशेषसा श्रुतत्वेपि एतहाक्ये तदश्रवणादिष्ट मिति सामान्यत उक्तम् । धात्वर्थस्य होमसा करणत्वेनान्वयसा सिद्धान्तितत्वप्रतिपादनादुत्पत्तिविधिलमेवासप्रति दर्शितं गुणविधित्वे धात्वर्थसा भाव्यत्वेनैवान्वयौचितादितिभावः ।
For Private And Personal