________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
उद्भिद्यते अनेनेति योगस्य तु गुण इव यागेऽपि फलोद्भेदनकारिण्युपपत्तेः। तसिद्धमुद्भिच्छब्दस्य मत्वर्थलक्षणाभयात् यागनामधेयत्वमिति ।
चित्रया यजेत पशुकाम इत्यत्र चित्राशब्दस्य वाक्यभेदभयात् कम्मनामधेयत्वम् । तथाहि न तावदत्र गुणविशिष्टयागविधानं सम्भवति । दधि मधु पयो घृतं धाना उदकं तण्डु लास्तसंसृष्टं प्राजापत्यमित्यनेन विहितत्वात् यागस्य विशिष्टविधानानुपपत्तेः । प्राप्तयागस्य फलसम्बन्धे गुणसम्बन्धे च विधीयमाने वाक्यभेदः ।
मनूभिद्यते भूमिरनेनेति व्युत्पत्त्या उभिच्छन्दः खनित्रपरोऽस्वित्थत पाह उभिद्यत इति। गुण व उदभित्पदाभिमतखनित्र इव । फलोदभेदनेति । उभिदाते प्रकायते फलमनेनेति व्युत्पत्यविशेषादिति भावः । मत्वर्थ लक्षणाभयात् यागनामधेयत्वसिद्धान्तमुपसंहरति तत्सिद्धमिति ।
वाक्यभेदभयानामधेयत्वमुदाहरति चित्रयेति । वाक्यभेदं विशदयति तथाहोति। गुणविशिष्टेति । चित्रद्रव्यविशिष्टयागविधाममित्यर्थः । असम्भवे हेतुमाह दधिमध्विति । पयो दुग्धम् । धाना भृष्टयवः। तसंसृष्टमिति । संसृष्टं मिश्रितं सदन प्राजापत्यं प्रजापतिदैवत मित्यर्थः । अनेन उपक्रमगतवाक्येन । विहितत्वात् मागापत्ययागस्येति शेषः । यागस्य सदयागस्य । ___ मन द्रव्यदेवताप्रकाशकवाक्यान्तरस्योपक्रमे श्रवणात्रियतिवाक्यस्योत्पत्तिविधित्वं मा भूत् । परन्तु प्रक्रान्तप्रामापत्ययागस्याश्रुतफलकस्य फलसम्बन्धी विचित्रद्रव्यरूपगुणसम्बन्धश्चानेन विधीयतामित्यत पाह प्राप्तयागस्येति । वाक्यभेद इति । यागेन पशु भावयेत् तश्च यागं चित्रयेत्येवंरूपः ।
चित्रया यजेतेति न प्रक्रान्स प्राजापत्येष्टिगुणविधायकम् । तत्र गुणस्योत्पत्तिविशिष्टतया पाकाकाविरहण गुणान्तरविधानासम्भवात् । किन्तु प्रकृतिभूताग्रीषोमीयपशोचित्रत्व. स्त्रीत्वगुण विधायकम् । पशुकामपदञ्च न फलकामनापरम्। किन्तु अग्नीषोमीयं पशुमर्जयितुकामपरम् । तथाच पशुकामः अग्रौषीमीयपश्चाहरण कामश्विया चित्रत्वस्त्रौत्व.
For Private And Personal