________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न्यायप्रकाशः
२०३
अथ चित्रशब्दात् चित्रत्वस्त्रीत्वयोः प्रतिपत्तेः स्त्रीत्वस्य च स्वभावत: प्राणिधमत्वात् प्रकृते दध्यादिद्रव्यके कम्मण्यविनियोगाब्रानेन वाक्येन प्रकृते कर्माणि गुणविधानम्, किन्तु प्राणिद्रव्यके कम्मणि । तत्रास्य वाक्यस्यानारभ्याधीतत्वादनारभ्याधीतानाञ्च "प्रतौ वाऽद्विरुक्तत्वा" दिति न्यायेन प्रकृतिगामित्वात् प्राणिद्रव्यकाणाञ्च यागानां "देवस्य चेतरे" ष्विति न्यायेनाग्नीषोमीयप्रकृतिकत्वात् तदनुवादेनानेन वाक्येन गुणो विधीयते ।
Acharya Shri Kailashsagarsuri Gyanmandir
विशिष्टेन पशुना यजेतेति वाक्यार्थ इत्याशङ्कते अथेति । स्वभावत इति । योन्यादिमत्त्वं स्वौत्वमित्येव स्वाभाविकम् । तच प्राणिमामेव भवति । श्रद्धादीनान्तु स्त्रीत्वमौपचारिकं शब्द संस्कारकमेवेति भावः । तच प्रक्रान्तयागौयगुणो न भवितुमर्हतीत्याह प्रकृते इति । अविनियोगात् गुणत्वेनान्वयायोगात् । अनेन चिश्त्रया यजेतेति वाक्येव ।
तर्हि कुत्रास्य गुणस्य विभियोग इत्यत चाह किन्विति । प्राणिद्रव्य के पशुद्रव्य के । पशुद्रव्यकयागानां बहुत्वात् कतमस्मिन् विनियोग इत्यत्राह तत्रेति । तेषु पशुद्रव्य कायागेवित्यर्थः । अनारम्याधीतत्वात् पश्शुयागविशेषाप्रकरणीयत्वात् । प्रकृतौ वेति । तृतीयाध्यायषष्ठपादे अमारभ्याधीतानां किं प्रकृतिमात्रविषयत्वं किंवा प्रकृतिविष्युभयविषयत्वमिति संशये "सर्वार्थमप्रकरणा" दिति सूत्रेण प्रकरणाभावात् सव्र्वविषयत्वमेवेति पूर्वपचयित्वा " प्रकृती या अहिरुक्तत्वा" दिति भूतेश विरुक्तत्वाप्रसक्त्या प्रकृतिविषयत्वमेव सिद्धातितम् |
इति न्यायेन एतत्सूत्रेण । का तन प्रकृतिरित्यवाह प्राणिद्रव्यकाणामिति । देवस्येति 1 देव इति ग्रीषोमीय उच्चते, दोधासम्बन्धादिति भाष्यम् । इतरेषु यषु अग्नीषोमीयस्यातिदेश इत्यर्थः । अतएव भाष्यम् - तमादग्रौषीमोयः पशूनां प्रकृतिरिति । इति न्यायेन श्रष्टमाध्यायप्रथमपादौयैतत्सूत्रेण । तदनुवादेन यजेतेति यजिना प्रीषोमयागानुवादेन | वाक्येन चित्रया यजेतेति वाकयेन । गुणः ग्रीषोमीयपशीचित्रत्व स्त्रीत्वरूपी गुणः ।
For Private And Personal