________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः ।
२०१
तयान्वयसम
विधानालाघवं भवति । धातोरत्यन्तपारायादिकन्तु न भवत्येव । धात्वर्थस्यैव फलोद्देशन विधानात् ।
अतश्चोनिच्छब्दस्य गुणसमर्पकत्वेन मत्वर्थ लक्षयित्वा गुणविशिष्टकम्म विधानं स्वीकार्यम् । उद्भिहता यागेन पशं भावयेदिति। कम्मनामधेयत्वेन उनिच्छब्दस्य न मत्वर्थलक्षणा । मुख्ययैव वृत्त्या यजिसामानाधिकरण्येन तस्यान्वयसम्भवात् । उद्भिदा यागन पशं भावयेदिति ।
सम्भवति च मुख्य अर्थे लक्षणा प्राथयितुं न युक्ता। सनिकृष्टविधानन्तु समानमेव । न चैवं सोमेन यजेतेत्यत्रापि सोमपदस्य यागनामधेयत्वापातः । गुणविधित्वे मत्वर्थलक्षणापत्तेरिति वाच्यम्। सोमपदस्य लतायां रूढत्वेन यागनामधेयत्वानुपपत्तेः अगत्या लक्षणाश्रयणात् । उद्विच्छब्दस्य तु नैवं वायोऽर्थः कश्चित् प्रसिद्धः ।
लक्षणाइयं नेति दर्शितम् । मत्वर्थ मात्र वैशिथ्यमात्रम्। लाघवमिति । गुणफलसम्बन्धविधाने लक्षणाचयम् । गुणविधित्वे तु लक्षणाइयम् । तथा तत्पचे लक्ष्यतावच्छेद कस्य बहुपदार्थ घटितत्वमेतत्पने त्वल्पपदार्थघटितत्वमिति लाधवमित्यर्थः । तथा धातोरत्यन्तपारायंदोषाभावोऽपि विनिगमक इत्याह धातीरिति । विधानात् करणत्वे न प्रतिपादनात् ।
गुणविधित्वे उपायान्तराभावान्मत्वर्थलक्षणेव स्वीकार्येत्याह अतश्चेति । नामधेयत्वकल्पने तु लक्षणा मास्येवेत्याइ नामधेयत्वेनेति । मुख्यवृत्त्या यजिसामानाधिकरण्यं प्रकाशयति उभिदा यागेनेति ।
मुख्य अर्थ सम्भवति लक्षणाश्रयणमन्याय्यमित्याह सम्भवति चैति । गुणविधौ नामधयविधौ च धात्वर्थस्य करणते नान्वयात् सन्निक्लष्ट विधानमविशिष्टम् । न तु गुणफलसम्बन्ध विधाविव विप्रष्ट विधानमित्याह सनिकष्ट विधानन्विति । नन्वेवं सीमेन यजतेत्यवापि मत्वर्थ ल च णाभयात् नामधेय विधानमस्तित्यापादनं निराकरोति न चेति । लताया खवाविशेषे । एवं सोमशम्दस्येव । वाच्यो मुख्यः ।
For Private And Personal