SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १८२ न्यायप्रकाशः। प्रधानविधेरङ्ग विध्येकवाक्यतापत्रस्य साङ्ग कम्मसमर्थं प्रत्येव प्रहत्तेयथाविनियोगमधिकारित्वात् । यदि हि समर्थ प्रत्येव प्रवृत्ती कयाचित् श्रुत्या विरोध: स्यात् तदा असमर्थस्याप्यधिकारः स्यात् । न च विरोधोऽस्ति, स्वर्ग कामश्रुतेः समर्थं प्रत्येव प्रवृत्ती विरोधाभावात् । प्रत्युतासमर्थं प्रति प्रवृत्तौ प्रधानविधेरङ्गवाक्यैकवाक्यतया प्रतिपन्नस्याङ्गसाहित्यस्य बाधापत्तेः। नित्यवत् श्रुतानामङ्गानां पाक्षिकत्व प्रसङ्गाच्च। अतः साङ्गे प्रयोग समथस्यैव काम्ये कर्मण्यधिकारः । तञ्चेति । अङ्गासमर्थस्थानाधिकारित्वे हेतुमाह प्रधानविधेरिति । अति । अा. विधिभिः सह मिलित्वा एकमहावाक्यता प्राप्तस्येत्यर्थः । सानेति। सानयाग विधायमामहावाक्यस्य अङ्गानुष्ठानासमर्थं प्रत्य प्रवृत्तेरित्यर्थः । यथाविनियोगमिति । विनियोगमनतिक्रम्ये त्यर्थः । तथाच साझ्यागविधिप्रहत्त्या यो यो विनियुज्यते तस्यैवाधिकारित्वमिति भावः । ननु तर्हि पुरुषविशेषाधिकारी श्रुतिविरोध: स्यादिल्याच श्रुसिविरीधे सत्य. समर्थस्याप्यधिकारी वाच्यः स्यात् परन्तु श्रुतिविरोध एव नास्तीत्याइ यदि हौति । श्रुतिविरोधाभावे हेतुमाइ स्वर्ग कामथुतेरिति । समय मिति। असमर्थ प्रत्य प्रवत्ता:वित्यर्थः । तथाच असमर्थ प्रति विधेः प्रवृत्त्यभावात् तस्यानधिकार की विरीधः । विधिविषयस्यानधिकारित्वानी कार एव विरोधसम्भव इति भावः । वैपरीत्ये पुनः श्रुतिविरोध इत्याह प्रत्यु ते ति । अङ्गा वाक्येति । पङ्गवाक्यैः सह मिलिला एक महावाक्यतयेत्यर्थः । प्रतिपन्नस्य प्राप्तस्य । विरोधान्तरमप्याह नित्यवदिति । श्रुत्या सयागसाकल्ये कर्त्तव्यसया बोधितानामित्यर्थः । पाक्षिकत्वेति । कुवचिन्प्रयोग कर्तव्यत्वं कुत्रचिन्ने ति पाक्षिकत्व प्रसङ्गादित्यर्थः । उपसंहरति अत इति । एतेन अप्रतिसमाधेियाङ्गवैकल्यवन्तः काम्ये कर्मणि व्यावर्तन्ते । तेषां सानयागानुछानासामर्थ्यात् । तथाहि अन्धो नाज्यमवेक्षितुं क्षमः । पङ्गुर्विष्णुक्रमेष्वशक्तः । यधिरी भाध्वय्युप्रोक्तं शणीति । मूकोऽनुमन्त्रणादावसमर्थः । तामि च याजमानिकत्वेन श्रुतिविहिसानि । अतएव सवंशत्यधिकरणे सर्वाङ्गोपेतस्यैव काम्यस्य फलक व मिति सिद्धान्ति सम् । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy