________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१८०
न्यायप्रकाशः।
वचनेन स्त्रिया अधिकारनिर्णयाच। निषादस्थपतेरिवाध्ययनविधिसिद्धज्ञानविरहिणोऽपि एतया निषादस्थपति याजयेदिति वचनानिषादेच्याम् ।
निषादम्य पतिशब्दे हि निषादश्चासौ स्थपतिश्चेति कम्मधारयो न तु निषादानां स्थपतिरिति षष्ठीतत्पुरुषः। षष्ठवर्षे लक्षणापत्तेः। एतावांस्तु विशेषः। निषादस्याध्ययनविधिसिद्धज्ञानाभावेन एतस्यैव विधेस्तत्कम्मौपयिकन्नानाक्षेपकत्वम्, पत्न्यास्तु तादृशज्ञानाभावेऽपि यजमानेन सहाधिकारात् तस्य च तादृशन्नानवत्त्वात् तेनैव च तस्याः कार्यसिद्धे!त्तरकमक्रतुविधीनां ज्ञानाक्षेपकत्वम् ।
ज्ञानाभावेऽपि परन्या अधिकारानुपपत्त्यभावे दृष्टान्तमाह निषादति । यथा जानविरहियोऽपि निषाद स्थपतेनिषादेष्ट्यां नाधिकारानुपपत्तिस्तथा ज्ञानं विनापि न पत्न्या अधिकारानुपपत्तिरित्यर्थः । निषाद शब्दः सङ्कीर्णजातिविशेषवाचौ। स्थपतिः कारुविशेषः । निषादजातीयः कारुविशेषी निषादस्थ पतिः। तस्येष्टावधिकार प्रमाणमाहएतयेति । रौद्रष्ट्या इत्यर्थः । वास्तुमध्ये रौद्रं चर निवपेत् यत्र रुद्रः प्रजाः शमयेदित्यनामिष्टि सुपक्रम्य एतत्याद्याम्नानात् ।
मनु स्पपतिशब्दोऽत्र श्रेष्ठ वाचौ। तेन निषादानां स्थ पतिनिषादेभ्य उत्कृष्ट इति चैवर्णिकपर एवास्वित्यत आह निषादस्थपतिशब्द हौति । षार्थे सम्बन्धिनि । लत. णापत्तेरिति । तत्पुरुषे निषादस्थपतौति प्रातिपदिकन निषादसम्बन्धि स्थपतित्वेन बोधात् निषादपदं सम्बन्धिलाक्षणिकमिति भावः । तथाच घटाध्यायप्रथमपाद सिद्धान्त सूत्रम्
स्थपतिर्निषादः स्यात् शब्दसामर्थ्यादिति । अर्थज्ञानवत्त्वाभावसादृश्येन ख्यधिकार निषाद स्थपत्यधिकारं दृष्टान्तमभिधायेदानों दृष्टान्तदार्शन्ति कयोर्विशेषमाह एतायां स्विति । एतस्यैव निषादस्थपति याजयेदित्येतस्पैक। तत्कोपयिकैति। निषादेष्ट्युपयोगीत्यर्थः । ज्ञानाक्षेपकत्वं ज्ञानबोधकत्वम् । तस्य यजमानस्य भत्तुः। तादृशज्ञानवत्वात् क्रत्वनुष्ठानप्रतिपादकवेदार्थज्ञानवच्वात् । तेनैव भज्ञानयत्त्वेनैव । तत्सिद्धेः भकतानुष्ठानेनानुष्ठानसिद्धेः । नीतीति । तथा
For Private And Personal