________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशन
सह प्रयुज्यमानेषु प्रधानेषु सन्नियतितानामानामावत्यानुष्ठाने कर्तव्ये दितीयादिपदार्थानां प्रथमानुष्ठितपदार्थक्रमात् यः क्रमः स प्रवृत्तिक्रमः ।
यथा प्राजापत्याङ्गेषु। प्राजापत्या हि वैश्वदेवौं कृत्वा प्राजापत्यैश्चरन्तीति वाक्येन तृतीयानिर्देशात् सेतिकर्तव्यताका एककालत्वेन विहिताः । अतस्तेषां तदङ्गानाञ्चोपाकरणनियोजनप्रभृतीनां साहित्यं सम्पाद्यम् ।
प्रवृत्तिक्रमं निरूपयति सहेति । साहित्ये न कर्त्त त्यतया विहितष्वित्यर्थः । प्रधानेषु परस्पराङ्गाङ्गिभावरहितेषु । सन्निपतितानां योगपोनीपस्थितानाम्। पावत्येति । सत्तत्प्रधानेषु तत्तदङ्गानां योगपद्येनानुष्ठानस्यावश्यकतया प्रव्यवधानेनानुष्ठानस्यैव शास्त्रार्थत्वेन तत्तत्प्रधानेषु तत्तदङ्गानामव्यवहितानन्तर्येण पुन: पुनरनुष्ठाने इत्यर्थः । द्वितीयादिपदार्थानामिति । प्राथमिकाङ्गस्य तत्तत्प्रधानेष्वावृत्यानुष्ठानसमाप्तावपस्थितानां तदुत्तरकर्तव्याङ्गानामित्यर्थः । यः क्रम इत्यनेनास्यान्वयः। प्रथमानुष्ठितेति । प्राथमिकास्य किश्चिन्द्रधानमारभ्यानन्तव्येण प्रतिप्रधानमनुष्ठाने यन्पोर्खापर्यमुपलब्धं तस्मादित्यर्थः ।
उदाहरति यथेति । प्राजापत्येति । वाजपेये सप्तदश प्राजापत्यान् पशूनासमतेवि अतिविहितसप्तदशपशूनामग्नीषोमीय पशु विकृतित्व नातिदेशप्राप्तेषु उपाकरणादिश्चित्यर्थः । प्रयत्तिकम इत्यन्वयः। तेषु कुत: प्रवत्ति क्रम इत्यत्र हेतुमाह प्रानापत्या होति । एककाखत्वेन विहिता इत्यनेनान्वितम् । तथा विधायक श्रुतिवाक्यमा वैश्वदेवौमिति । तृतीयानिर्देशात् हतीयाबहुवचननिर्देशात् । पत्र हतीयार्थोऽभेदः । तस्य चाचरण क्रियायामन्वयः। पाचरणमनुष्ठानम्। तेन प्रानापत्याख्यकमाभिन्नानुष्ठानप्रतीते: प्राजापत्यस्य सेतिकर्तव्य ताकत्वं लभ्यते। साङ्गप्रधानसम्पादनस्यैव कर्मानुष्ठानत्वात्। न होकदेशाचरणे कभानुष्ठितमिति व्यवलियते। बहुवचनेन तु साहित्यप्रतीतिबन्नेन एककाल कर्तव्यता प्राप्ता। एतदेवाह सेतिकर्तव्यताका इति । एककालत्वेनेति च ।
पत इति। यतः प्राजापत्यानां तदिति कर्त्तव्य तानाचैक कालकर्तव्यताविधानमत इत्यर्थः । उपाकरणनियोजनप्रभृतौनामिति । एक कपशुविषयापामिति शेष: । साहित्यमेककाख कर्तव्यत्वम् । सम्पाद्यं घटयितव्यम् ।
For Private And Personal