________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
श्रीयमाणे बहनामङ्गानां प्रधानविप्रकर्षों भवति । पस्मिंस्तु पाश्रीयमाणे सन्निकर्षः।
तद्यथा दर्शपौर्णमासयोरादावाग्ने यानुष्ठानं नतः सावा. व्यस्य। तदाश्च केचित् पूर्वमनुष्ठीयन्ते। तत्र यदि प्रवृत्तिकममाश्रित्य तद्धाः सर्वे पूर्वमनुष्ठीयेरन् तत आग्न यधर्माः तत आग्न यानुष्ठानं ततः सानाय्यानुष्ठानं तदा तदर्माणां स्वप्रधानेन सह हाभ्यामाग्न यधर्मानुष्ठानाभ्यां विप्रकर्षः स्यात् ।
यदा तु सानाय्यधन्माणां केषाञ्चित् पूर्वमनुष्ठानेऽपि अन्ये
भी क्रियमाणे। बहनामिति । अवदानाभिधारणासादनादीनामपौत्यर्थः । प्रधानविप्रकर्षः प्रधानेन सह सम्बन्धे कर्मान्तरितत्वरूपं व्यवधानम् । अस्मिन् मुख्यक्रम । सन्निकर्षोऽव्यवधानम् ।
विप्रकर्षसन्निकर्षाववगमयति तद्यथेति । पाने यानुष्ठानमाग्ने यहविषस्यागः । ततः सान्नाव्यस्येति । सन्नयनान्मियणाज्जातं सान्नाय्यं दधिमिश्रितपयीरूपमैन्द्रहविः। तस्यानु. छानमित्यनुषङ्गः। तत्त्यागः पश्चादित्यर्थः। तद्धमाः सानाय्यनामक-ऐन्द्रहविधर्मणः । केचित् वत्मा पाकरणदोहनादयः । पूर्वम् भाग्ने यहविर्धमानुष्ठानात् प्राक् । प्रतिक्रम वत्मापाकरणदोहनादौ य: प्रवृत्तिकमः प्रथमप्रवृत्तिरूपः क्रमस्तमाश्रित्य इतरेष्वपि ऐन्दइविधर्मेषु तमेव प्राथम्यरूपक्रममनुसृत्य । सर्वे तद्धमा अवदानाभिधारणासादनान्यपि । वत: सर्वस्मादै न्द्रहविधर्मानुष्ठानात् परम्। भाग्ने यानुष्ठानम् पामे यहविस्यागः । सह
र्माणां सर्वेषां सान्नाय्यधर्माणाम्। स्वप्रधानेन सान्नाय्यानुष्ठानेन । भाग्ने येति । सानाय्यानुष्ठानात् । पूर्वमाने यानुष्ठानस्य तत्पूर्वमाग्ने यधर्मानुष्ठानस्य तव्यूर्वञ्च सानाय्यधर्मानु. ष्ठानस्य भवन्मते प्राप्तत्वादिति भावः।
वत्सापाकरणदीहनादि भिन्नानामवदानाभिधारणसादनादीनां मुख्य क्रमाअयसे तु न कस्यापि स्वप्रधानेन सह हाभ्यां व्यवधान किन्वेकमात्रव्यवधानमित्याह यदा खिति । केषाञ्चित् वत्सापाकरणादीनाम् । पूर्वमनुष्ठानेऽपोति । बलवतः पाठक्रमादिति भावः ।
For Private And Personal