________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५२
न्यायप्रकाशः।
स च पाठो विविधः, मन्त्रपाठो ब्राह्मणपाठश्चेति। तत्रा. ग्नेयाग्नीषोमीययोस्तत्तयाज्यानुवाक्यानां क्रमादयः क्रम आधीयते स मन्त्रपाठात् । स चायं मन्त्रपाठो ब्राह्मणपाठा. हलवान् । अनुष्ठाने ब्राह्मणवाक्यापेक्षया मन्त्रवाक्यस्यान्तरङ्गवात्। ब्राह्मणवाक्यं हि प्रयोगाइहिरेव इदमेवं कर्तव्यमित्येवमवबोध्य कृतार्थमिति न पुनः प्रयोगकाले व्याप्रियते। मन्त्राः
पाठं विभजति स चेति । मन्त्र पाठः क्रमपठितमन्तः । ब्राह्मण पाठः कमपठितब्राह्मणम्। मन्तरवेदभागस्य ब्राह्मणरूपतया तत्पदन विधेरर्थवादादेर्वा कर्मप्रतिपादकवाक्यमाचस्य ग्रहणम् । मन्त्रपाठस्योदाहरण माह तनेति । भाग्नेयेति । आग्नेयाष्टाकपालानीषोमौययागयोरित्यर्थः । तत्तयाज्यानुवाक्यानामिति । याज्या अनुवाक्या च ऋग्विशेषः । यः क्रम इति। प्रथममाने यानुष्ठानमनन्तरमनौषोमौयानुष्ठानमित्यर्थः । मन्त्र पाठक्रमादिति। मन्त्र काण्डे प्रथममाग्ने यमन्त्रस्य अनन्तरमग्नौषीमीयमन्त्रस्य पाठादित्यर्थः ।
तथाहि होत्रकाण्डे श्राज्यभागमन्त्रानुवाकाटुत्तरस्मिन्ननुयाके प्रथमम् पग्निमुंडेत्यादिके आग्नेय्यी याज्यानुवाक्ये ऋचावानाते। ततः प्रजापते न वदेतानीत्यादि के प्राजापत्ये ऋचौ। ततोऽनीषीमास वेदसे इत्यादिकै अनौषीमौर्य ऋचावानात। एव माध्वर्यवे काण्ड अग्रये जुष्टं निवपामि अग्नीषोमाभ्यामित्याग्नेयमन्त्रः पूर्वमानातः । यजमानकाण्डेऽपि एहं देवयज्ययान्नादो भूयासमित्याग्ने यमन्त्रः पवाञ्च पहं देवयज्यया चहा भूयासमित्यग्नीषोमौयमन्त्र आम्नायते। अत एतेषु भाग्ने याग्नीषीमीयमन्त्राणां क्रमेण पाठदर्शनात् तयोर्यागयोरपि क्रमकल्पना सिध्यति । एवमेव पञ्चमाध्यायप्रथमपाटे
न्यायमाला।
मन्त्रपाठस्य बलीयस्वमाह स चायमिति । तत्र हेतुमाह अनुष्ठान इति। अन्तरजात्वात् प्रयोगसन्निहितत्वात् । एतेन ब्राह्मणवाक्यस्य वहिरङ्गत्वं प्रतिपादितम् । तत्रादौ ब्राह्मणवाक्यस्य वहिरवं युक्त्यावधारयति ब्राह्मणवाक्यं हौति । प्रयोगाइहिरिति । अनुष्ठानात् प्रागित्यर्थः । एवकारण प्रयोगदशायां नास्त्यस्य व्यापार इति दर्शितम् । अवबोध्य ज्ञानमुत्पाद्य । कृतार्थ निष्पादितस्वप्रयोजनम्। तथाच विधिवाक्यस्य कत्त. व्यतामानोत्पादनैकप्रयोजनकतया पुरुषस्य तथाविधज्ञाने उत्पादिते सति कर्मानुष्ठानाय
For Private And Personal