SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। होयवागूपाकयोः। पत्र. हि यवाग्या होमार्थवेन तत्याकः प्रयोजनवशेन पूर्वमनुष्ठीयते। स चायं पाठक्रमाइलवान् । यथापाठं अनुष्ठाने कृप्तप्रयोजनबाधोऽदृष्टार्थत्वञ्च स्यात् । नहि होमानन्तरं क्रियमाणस्य किञ्चिदृष्टं प्रयोजनमस्ति । पदार्थबोधकवाक्यानां यः क्रमः स पाठक्रमः । तस्माच पदार्थानां क्रम आधीयते । येन हि क्रमेण वाक्यानि पठितानि तेनैव क्रमेणाधोतान्यर्थप्रत्ययं जनयन्ति। यथार्थप्रत्ययञ्च पदा. र्थानामनुष्ठानात् । उदाहरति यथेति । अग्निहोत्रय वागूपाकोरिति । प्रयोजनवीन क्रमनिर्णय इति शेषः । प्रयोजनवशेन कीदृशः क्रमो निर्णय: किंवा प्रयोजनमित्येतत्प्रदर्शनाय हेतुमाह पत्र हौति। होमार्थत्वेन होमप्रयोजनकलेन । तत्याको यवागूपाकः । पूर्वम् अग्निहोत्रहोमात् प्राक् । पाठकमादर्थ क्रमस्य बलवत्त्वं साधयति स चायमिति । बलवत्वे हेतुमाह यथापाठमिति। पाठकममनतिक्रम्य, पाठक्रमानुसार णेति यावत् । अनुष्ठाने अग्निहोत्रहीमानन्तरं यवागूपाक करणे । कृप्त प्रयोजनेति । दृटप्रयोज नेत्यर्थः । दृष्टपयोजनामावे हेतुभाह नहौति । अयमेव पञ्चमाध्याय चतुथ पादसिद्धान्तः । तथाचीनं शास्त्र दीपिकायाम् । हुत्वा हि पचमानस्य भवेट्यमनर्थकम् । पाकश्चैव यवागूश्च तां पता जुहुयात्ततः ॥ इति । पाठक्रममाह पदार्थेति । तत्तत्कम बोधकैत्यर्थः । तस्मात् तत्तत्कर्मबोधवक्रमपठितवाक्यात्। पाश्रीयते पौर्वापथ्यबोधक घुतिकल्पनया नियोयते । तथाच क्रमपठितवाक्यमेव पदार्थ क्रमप्रमाणभूतपाठशब्दार्य इति सिध्यति । वाक्य कमेणार्यक्रम कल्पमायां वीजमाह बेन होति। अर्थ प्रत्ययमर्थ ग्रहम् । यथाप्रत्ययं वाक्याग्रहमनविक्रम्य । तथाच यथा यथा वाक्यानि पठितानि तथा तथैवाध्ययनात् प्रयागवेलायां तथा तथैव स्मरणं यथा यथा वाक्यम्मरणं तथा तथैव वाक्यार्थ स्मरणं यथा यथा चार्थस्मरणं तथा तथैव वर्मानुष्ठानमित्येवं पौर्वापर्यस्खावश्यम्भावात् श्रुतेरपि तथैव तात्पर्थं कल्पनीयमिति भावः । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy