________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१४४
न्यायप्रकाशः।
यथा वृहस्पतिसवस्य वाजपेयेनेट्वा वृहस्पतिसवेन यजेतेति वाजपयोत्तरकालमङ्गत्वेन विहितस्य वाजपेयापूर्वस्थितावुपयोगः। तस्य प्रागेवोत्यवत्वादित्युक्तं चतुर्थे । तसिद्धं सर्वथाङ्गानामपूर्वार्थत्वम् । प्रकृतमनुसरामः । तदेवं निरूपितः सञपती विनियोगविधिः ।
प्रयोगप्राशुभावबोधको विधिः प्रयोगविधिः । स चाङ्गवाक्यै
प्रयोगवहितस्य परमापूर्वस्थितावुपयोगे उदाहरण माह यथेति । अङ्गत्वेनेति । तथाच शास्त्र दीपिकायाम् -
प्रसिद्धारकर्मणो भिन्नमनितिप्रयोजनम् ।
वाजपेयाङ्गभावेन वाक्येनैव विधीयते ॥ वाजपेयप्रयोगं यथोक्तं निर्त्य न तावत्येव कृती स्यात्, इदमपरमङ्गं तस्य पश्चात कर्तव्यमित्य भिहितम् । चतुर्थे चतुर्थाध्यायतीयपाद ।
अत्र उद्देश क्रमप्राप्तमप्यधिकारविधिनिरूपणमपहाय विनियोगविधिनिरूपण प्रकरणावगताङ्गप्रधानवाक्यानां झटित्युपस्थितिसम्भवात् सहटित प्रयोगविधिनिरूपणस्य शिष्य. सौगम्याय विनियोग विधिनिरूपणानन्तरमेव प्रयोगविधिं निरूपयति प्रयोगति । प्रयोगस्य एक कर्म तापनाङ्गप्रधानात्मक कर्म सद्भातस्य प्राशुभाव उत्तरोत्तरकर्मणो विलम्ब राहित्य तबोधक इत्यर्थः । नन्वेतादृशं किमपि वाक्यान्तरं न श्रूयते सेन तत्तत्कमाण्य विलम्बेन कत्तं यतया विधीयन्ते, तदेत लक्ष गामसम्भवीत्यत आह स चैति । अङ्ग वाक्येति । अङ्गवाक्यैरङ्ग विधिभिरेक वाक्यतापनी यः प्रधानविधिः स एवेत्यर्थः । एवकारात् प्रयोगविधिन विध्यन्तरमिति लभ्यते ।
ननु वाक्याना व स्वार्थ बोधनानन्तरं परिसमाप्त तथा नानात्व मेव स्वीक्रियते, तत्कथमस्य एकवाक्यत्व समाव इति चेत् । उच्यते, यथा स्वर्ग कामो यजेते त्यादौ पदानां स्वस्वार्थबोध नानन्तरं विरतत्वेऽपि आकाशावशात् परस्परान्वितत्वेन मिलितानां तेषां वाक्यत्वं जायते, तथा दशपौर्णमासाभ्यां यजेत, समिधी यजति, इड़ी यजतीत्यादिवाक्यानां स्वखार्थबीधनानन्तरं समाप्तत्वेऽपि परस्परमुपकार्योपकारकाकाच्या अन्वितत्वेन मिलितानामेकवाक्यत्वं भवति । अतएव परस्परान्वितपद सङ्घातो वाक्यं तथाविधवाक्योञ्चयो महावाक्यमित्युच्यते। तथाचीत भट्टपादः।
For Private And Personal