________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न्यायप्रकाशः ।
Acharya Shri Kailashsagarsuri Gyanmandir
सन्रिपत्योपकारकाणां पूर्व्वाङ्गाणां तदुत्पत्तावुपयोगः । उत्तराङ्गाणां तेषान्तु तत्स्थितावुपयोगः । परमापूर्व्वस्य तु साङ्गप्रयोगानुष्ठानानन्तरमेवोत्पद्यमानत्वात् सब्र्वेषामारादुपकारकाणां तदुत्पत्तौ, प्रयोगवहिर्भूतस्य तु तत्स्थितावुपयोगः ।
१४३
पूर्वाङ्गाणां प्रधानानुष्ठानात् प्राकृतानाम् । तदुत्पत्तौ उत्पत्त्यपूर्बीत्यतौ । पूर्ववर्त्तिनामेवोत्पादकत्वसम्भवादिति भावः । उपयोगः स्वजन्यावान्तरापूर्वदारण निमित्तत्वम् ।
सन्निपत्योपकारकाणामित्यनुषङ्गः ।
उत्तराङ्गाणां प्रधानानुष्ठानोत्तर कालकृताङ्गानाम् । तस्थितौ प्रधानापूर्व्वस्य फल पय्यन्त स्थायित्वशक्तिमत्त्वोत्पत्तौ ।
For Private And Personal
परमापूर्वोपकारकाणामारादुपकारकाणां कौहर उपकारक्रम इत्यचाह परमापूति । साङ्गप्रयोगेति । बङ्गापूर्व्वाणि प्रधानापूर्वच क्रमेण जायन्ते । अनन्तरमङ्गापूर्व्वाणि प्रधानापूर्व्वस्य फलजननी न्मुखत्वरूपमुपकारं विधाय विनश्यन्तीति नियमादङ्गप्रधानसमुदायरूपप्रयोग समाप्तावेव परमापूर्वोत्पत्त्य वश्यम्भावादिति भावः । सर्व्वेषां पूर्वी तर कालकृतानाम् । तदुत्पत्तौ परमापूर्वोत्पत्तौ । तत्स्थिताविति । यद्यपि मौमांसकान्तरैः पूर्व्वापरकालकृताङजातजन्यावान्तरापूर्वाचि निःशेषमुत्पद्यप्रधानापूर्व्वस्य फलजननी मुखत्वरूपमुपकारं जनयित्वा युगपदेव विनश्यन्ति । न पुनः कानिचित् art कानिचिच्च स्थिती निमित्तानोति मन्यते । स्थितिनिमित्तत्वाङ्गीकारे तदवान्तरापूर्वाणामपि फलपर्यन्त स्थायित्वस्याभ्युपेयत्वापत्तेः । अतएव शास्त्र दौपिकायाम् । तथाङ्गान्यपि ऋतूपकारकत्वेन स्वीकृतानि चणिकत्वात् स्वरूपेण संहत्योपकर्त्तुं न शक्नुवन्तीत्यवान्तरापूर्व्वाणि तावदारभन्ते । ततः सर्व्वाणि संहत्य प्रधानस्य सामथ्र्यद्दोधनं फलारभोन्मुखत्वरूपमनुग्रहं महोपकारं जनयन्ति । तत्र त्वयं विभागः । सन्निपत्योपकारकाणि द्रव्यदेवतासंस्कारहारेण यागस्वरूपस्यैव शक्त्यतिशयमादधानानि तदुत्पत्त्य पूर्व निष्पत्ती व्याप्रियन्ते । तद्द्वारेण फलापूवें । आरादुपकारकाणि तु साचादेवोत्पत्त्य पूर्वेभ्यः फलापूर्वनिष्पत्तावित्युक्तम् । तथापि मतान्तरमवलम्वग्र ग्रन्थकृताभिहितम् । एतद्विस्तरेणाभितिर्थसंग्रहटीकायामस्माभिः ।