________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
फवाक्यतापनः प्रधानविधिरेव । स हि साङ्गं प्रधानमनुष्ठापयन् विलम्ब प्रमाणाभावादविलम्बापरपझ्यं प्रयोगमाशुभावं विधत्ते। .
न च विलम्बवदविलम्बेऽपि प्रमाणाभाव इति वाच्यम् ।
अर्थ बोधे समासानामङ्गाङ्गित्वाद्यपेक्षया।
बाक्यानामकवाक्यत्वं पुनः संहत्य जायते ॥ इति । पत्राङ्गाङ्गित्वं वैदिकवाक्य एव। तन्मात्रोक्तो भारतरघुवंशादी नामक महावाक्यत्वं न स्यादिति । तत्संग्रहाय आदिपदमुपकार्योपकारकभावसम्बन्धग्राहक मुपात्तम् । तथाच प्राशुभावबोधकवाक्यान्तरामावेऽपि तत्तवाक्य समुदायात्मकमहावाक्यस्यैव प्रयोगविधित्वमिति नासम्भव इति सिद्धम् ।
अङ्गपाक्यैकवाक्यतापनप्रधानविधी प्रयोगविधिलक्षणं सङ्गमयति स हौति । विधत्त इत्यन्वयः । को नाम प्रयोगप्राशुभाव इत्यतस्तरम्वरुपमाह अविलम्बेति। अविवम्बः अपरपायो नामान्तरं यस्य तमित्यर्थः । महावाक्यापरावस्य अङ्गवाक्यै कवाक्यतापनप्रधानविधेरविलम्बप्रतिपादकत्वे हेतुगर्भविशेषणमुक्तं साङ्गमित्यादि। अनुष्ठापयन् अनुष्ठेयत्वेन प्रतिपादयन् । तथाच यथा भारतादौ एकैकवाक्येन इतिवत्तांशविशेष एव बोध्यते, वाक्य समुदायात्म कमहावाक्येन तु समग्रेतिवतम्। तथा वेदेऽपि तत्तहाक्येन कमावयवविशेष एवानुष्ठयत्वेन प्रतिपाद्यते । तत्तदाक्यसमुदायात्मकमहावाको न तु कर्म. समुदायात्मकं साङ्गप्रधानमनुष्ठेयत्वेन बोध्यत इत्ये क कमात्मकव्यापारनिचयस्थ अविलम्बन कर्तव्यतैवायातीति भावः। नन्वेक कर्मतापनत्वे बोधितऽपि तत्तत्कर्मणामविलम्बन कर्तव्यत्वे किं मानमित्यत उक्तं बिलम्बे प्रमाणाभावादिति ।
तथाच एक कर्मतापन्नानां व्यापाराणां यत्र विलम्बे प्रमाणं नास्ति तत्राविलम्बेनैव कर्तव्यता। एकपाक कर्म तापन्नस्थालीमार्जनाद्योदभपरीक्षान्तव्यापाराणामविलम्बवदिति भाव: । पूर्वोत हेतोः सत्प्रतिपक्षितत्वशङ्कामपनयति न चेति । अविलम्बापोति। तेषां कर्माणामविलम्बेन कर्तव्यत्वेऽपौत्यर्थः । तथाच यत्राविलम्बेऽपि प्रमाणामावन्तत्र विलम्बन कर्तव्यतापि सम्भवति । ग्रामान्तरं गच्छतः पुरुषस्यान्तरा छायायामुपविशती यामान्तरगमनरूपै ककर्मतापनपादविहरणानामन्तरा विलम्बवदिति भावः। तथाच विलम्बा.
१८
For Private And Personal