SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। कल्याम्। पारादुपकारकस्थले तु दर्शपौर्णमासप्रयाजयोः सम्बन्धः कल्पाः, उपकारोऽपि । किञ्च पारादुपकारकस्थले हि प्रकरणं विनियोजकम् इतरत्र तु व्रीहीन् प्रोक्षतीति वाक्यमेव । ब्रीहिपदेनापूर्वसाधने लक्षणां कृत्वा कृतौ विनियोजकमिति बलीयस्त्वम् । यच्चोतामङ्गगुणविरोधे च तादर्थ्यादिन्यायेन दुर्बलत्वमिति, तदसत्। न हि व्रीह्याद्युहेशेन विधीयमानं प्रोक्षणादि तदर्थ भवति। तत्स्वरूपे आनर्थक्यात्। किन्तु तत्संस्कारहारा क्रत्वर्थमेव। सबिपत्योपकारकाणामुत्पत्त्यपूर्वप्रयुक्त त्वस्य च वक्ष्यमाणत्वात् । अत उभयविधमप्यङ्ग जातं कवर्थमेवेति नान संस्काररूपफलाश्रयत्वं बोध्यते। तथाच नौहीणां संस्काराश्रयत्वं प्रोक्षणस्य सत्संस्कारजनकत्वमित्येवं सम्बन्धी काक्यादेव प्रतीयत इति भावः । उपकारमात्रमिति । प्रोक्षणस्य खजन्यसंस्कारद्वारा अपूर्वजनकताधायकत्वं ब्री होणाश्च प्रोक्षणसंस्कतलेनापूर्वननकत्वमित्यर्थः । कल्प्यमिति । असंतत्री होणामध्यपूर्वजनकत्वे प्रावधाभिधानानुपपत्त्या प्रोक्षणसं तैरेव व्री हीभिरपूर्वं कुर्यादित्येवं कल्प्यमित्यर्थः । सम्बन्धः कल्प्य इति । प्रकरणपाठादेव प्रधानाङ्योः परस्परसम्बन्ध: कल्पनीय इत्यर्थः। प्रयाजाद्युपततेन यागेनापूर्वं कृत्वा भावयेदित्युपकारस्तावदुभयत्रैव कल्पनीय इत्याह उपकारोऽपौति। वाक्यमेवेति । विनियोजकमित्यनेन पूव्वेण सम्बन्धः । पपूर्व साधने अपूर्वसाधनवीही। कृतौ प्रीक्षतीत्याख्यातार्थभावनायाम् । तथाच प्रोक्षयेनापूर्वसाधनानि व्रौहीन भावयेदिति वाक्यार्थपर्यवसानात् ब्रीह्यपूर्व भावयेदित्येक फलितम् । बलीय त्वमिति । प्रकरणावाक्यस्य बलवत्वादिति भावः । हादशाध्यायद्वितीय पादीतन्याय विरोधीपन्यासं दूषयितुमाइ यश्चेति । सदर्थं द्रौह्यादि. फलकम् । वत्वरूपे ब्रीह्यादिस्वरूपोत्पादने । पानर्थ क्यादिति । प्रीक्षणात् प्रागपि द्रोह्यादः सिद्धतया तज्जनकत्वासम्भवादित्यर्थः । क्रत्वर्थमेव संस्कृतव्रीहिकरणकयागजन्यापूर्वोत्पादनेन यागोपकारकमेव । उत्पत्त्यपूर्वेति । प्रधानापूर्थि त्वस्येत्यर्थः । उभयविधं सनिपत्योपकारकमारादुपकारकञ्च । क्रत्वर्थमेव प्रधामयागार्थमेव । इति हेतोः । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy