________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
विधानात्। सन्निपत्योपकारकन्तु अङ्गाङ्गम्। कङ्गिनीयायुद्दे शेन विधानात् । अङ्गाङ्गापेक्षया च साक्षादङ्ग बलीयः ।
अङ्गगुणविरोधे च तादात् । इति न्यायात् । अतएव य इट्या पशुना सोमेन वा यजेत सोऽमावास्यायां पौर्णमास्यां वा यजेतेत्यविशेषेण विधानेऽपि पर्बानुग्रहः सोमस्यैव क्रियते, न तु दोक्षणीयादेः। अतः कथं सबिपत्योपकारकस्य बलीयस्त्वम् ।
उच्यते, सत्य प्यदृष्टार्थत्वाविशेषे सन्निपत्योपकारकमारादुपकारकाइलीयः। सन्निपत्योपकारके हि कम्मणि उपकार्योप. कारकयो:हिप्रोक्षणयोः सम्बन्धो वाक्यलप्तः । उपकारमात्रन्तु
बलवत्त्वे हादशाध्यायद्वितीयपादसूत्रं प्रमाणयति अङ्गगुणेति। अस्यार्थः । अङ्गगुणेन प्रधानगुणस्य विरीधे अङ्गगुणी वायते, सादात् अङ्गगुणस्यापि प्रधानोपकारकत्वादिति । अयमभिप्रायः । प्रधानस्य सगुणत्वसम्पादनायैव अङ्गं सगुणं क्रियते । एवञ्च यद्यङ्गगुणेऽनुष्ठीयमाने प्रधानगणबाध पापद्यते सदा अगस्य सगुण ताकरण मनर्थक मिति साचादुपकारकसम्भवे परम्परोपकारकादरी न युक्त इति । एवमेव भाष्याशयः ।।
तत्सत्र सिद्धान्तविषयं दर्शयति अत एवेति । य दृष्टोति । ज्योतिष्टोमे अनावैषणवमेकादशकपालं निपेत् दीतिष्यमाण इति युत्या दोक्षणीयेष्टिविहिता। अनन्तरं य इश्या पशुना सोमेन वा यजेत सोऽमावास्यायां पौर्णमास्यां वा यजतेति शुत्या दृष्ट्यादीनां पर्व काली विधीयते । एवञ्च अङ्गभूताया दीक्षणो येष्टेः प्रधानभूतस्य सोमयागस्य च पर्चसम्बन्धोऽवगम्यते । तच्च विरुद्धम्, वयोः पूर्वापरदिनकर्तव्यत्वात्। तस्मात् किं दोक्षणीयेप्टेः पूर्व कर्तव्यत्वं सोमयागस्य तदुत्तरदिनेऽनुष्ठानं किं वा इष्टेः पूर्वदिनेऽनुष्ठान कृत्वा सोमस्य पर्वसम्बन्ध इति संशये, टेरेव प्रथमपठितत्वेन पर्व कालसम्बन्धोऽस्तु, सोमस्य दिनान्तरे उत्कर्ष इति पूर्वपचे प्राप्ते प्रधानकालत्वात् सोमस्यैव पर्चसम्बन्धी, दीक्षणीयादेतु दिनान्तरेऽनुष्ठानमिति निर्णीतम् । सनिपत्थोपकारकस्येति । सर्वस्येति शेषः ।
पूर्वपक्षं सिद्धान्तयितुमाह उच्यत इति । वाक्यकप्त इति। व्रीहीन् प्रीतीति बाकी प्रोचणं संस्कारानुकूलजवप्रक्षेपविशेषः । बोहोनिति द्वितीयया प्रीक्षण क्रियाजन्य
For Private And Personal