________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः ।
वयन्वङ्गीकृत्यापि विकत्यर्थत्वं ब्रूमः । भवतु वा विकृत्यर्थत्वं पृषदाज्यस्य, तथापि न प्रकरणं विनियोजकं भवति | यूपपृष्टभावेन हि यावत्खादिरत्वमायाति तावदौटुम्बरसविधानादुभयाकाहासम्भवादयुक्तः प्रकरणविनियोगः। एवं यावदनुयाजपृष्टभावेनाज्यमायाति तावदेव यदि पृषदाज्यं विधीयते तदोभयाकाकासम्भवात् प्रकरणविनियोगो भवेत् । न त्वेत. दस्ति, नहि पृषदाज्यं नाम द्रव्यान्तरं किञ्चिदस्ति, यदाज्यस्थानापन्न विधीयेत । औदुम्बरत्वमिव खादिरस्थानापनम् । पृषच्छब्दस्य पृषन्मणिरित्यादौ चित्रतावाचित्वेन दृष्टत्वात् पृषदाज्यशब्दस्य चित्राज्यवाचित्वात् । अतएव निगमेषु आज्यपानित्येव वक्तव्यं, न तु पृषदाज्यपानित्युक्तम् ।
खमतमाह वयन्विति । विकृत्यर्थत्वाङ्गीकार भौटुम्ब रत्ववत् कुतो न प्रकरणविनियोग इत्यत्र औदुम्बरत्ववैलक्षण्यं प्रतिपादयति यूपपृष्टभावेनेति। पाज्यमायातीति । प्रकृतावनुयाजानामाज्येनैव विधानादिति भावः । एतत् पनुयाज पृष्टभावन भाज्यस्थाने पृषदाज्य विधानम् । भौटुम्बरत्ववैलक्षण्ये हेतुमाह नहीति । किन्तर्हि पृषदाज्यमित्यवाद पुषच्छब्दस्येति । पृषन्मगिश्चित्रवर्णो मणिः। भादिना पृषन्मृग इत्यादिपरिग्रहः । चित्राज्येति । यद्यपि पृषदाज्यं दधिमिश्रितमाज्यमित्याभिधानिका: । अतएव दशमाध्यायचतुर्थपाद भाष्यादिता श्रुतिः । पृषदाज्यं ग्रह्णाति इयं वा इदं सर्पिश्चैव दधि चेति । सघापि पृषच्छब्दस्य चिवतावाचकत्वमेव तत्तत्प्रयोगस्य मूलम् । तथाहि चित्रता नानावर्णता, पृषन्मभिः पृषन्भृग इत्यादौ तथार्थदर्शनात् । पृषदाज्यमित्यादौ श्राज्यस्य चित्रता सु दधिमिश्रणेन बहुल श्वेतविन्दुयुतात्वसम्पादनावति । न पुन: पृषदाज्यं ट्रव्यान्तरम् । एवमेव दशमाध्यायचतुर्थ पाद भाष्यकारादयः ।
अतएव पृषदाज्यस्य द्रव्यान्तरत्वाभावादेव । निगमेषु पावाहनमन्वेषु । तथाच दशमाध्यायचतुर्थपाद शास्त्र दीपिका
“सन्ति प्रकतावाज्यपशब्दयुक्तानिगमाः । देवानाज्यपानाय स्वाहा । इत्यादयः इति ।" एषदान्यपानिति । पृषदाज्यशब्दस्य ट्रयाम्तरत्वे विकासावूहावश्यम्भव इति भावः ।
For Private And Personal