________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
एवं पृषदाज्येनानुयाजान् यजतीति प्राकतानुयाजानुवादन विधीयमानं पृषदाज्यमपि प्रकरणादिकत्यङ्गमिति केचिदाचार्याः । अन्ये वेवमाहुः । पृषदाज्यं हि अनुयाजानुवादेन विधीयते। तत्स्वरूप चानर्थक्यप्राप्तः । तेन विकत्यपूर्व लक्षयितं युक्तम्, विप्रकर्षात् । किन्तु दीक्षणीयावाडियमन्यायेन वापूर्वमेव लक्षयितुं युक्तम्, सन्निकर्षात् । अतएवोत्यवनादीनां प्रोक्षण्याद्यपूर्वप्रयुक्तत्वमुक्तम् । अतश्च विधीयमानस्य पृषदाज्यस्य वाक्यप्रतिपनेनानुयाजापूर्वेणैव नैराकाइयान प्रकरणादिकत्यर्थत्वमिति।
मतान्तरणोदाहरणान्तरमाह एवमिति । औदुम्बरत्ववदित्यर्थः। विकत्यङ्गमिति । चातुर्मास्य यागान् प्रकृत्य पृषदाज्ये नेति श्रुतिराबातेति भाष्यम् । अतएवास्था विकृतिविषयत्वम् । चातुर्मास्य यागानां दर्शपौर्णमासविकृतित्वात् । एतदभिमन्त्रणामाचार्याणामयमाशयः । यथा प्रकृतिप्राप्तं यूपमन द्य तस्य श्रीदुम्बरत्वं विधीयते इति भौटुम्बरलं विकृत्यङ्ग तथा प्रतिप्राप्मान याजानुवादन तस्य पृषदाज्यकरणकत्वं विधीयते इत्यत श्रौद्म्बरत्ववत् पृषदाज्यस्यापि विकृतियागाङ्गत्वं भवेदेवति ।
प्राचार्यान्सरमतमाह अन्ये विति। विधीयते परिप्राप्तानुयानाइत्वेनेति शेषः । तत्व रूपे पृषदाज्य करण कानुयाजविधाने । पानर्थक्येति। अनुयाजानामनिर्दशेनैव प्राप्तत्वादिति भावः। तैः पृषदाज्य करण कानुयाजैः । वितत्यपूर्व मिति । पृषदाज्यकृतानुयाजैविकृत्यपूर्व भावयेदिति लक्षयितुं प्रत्याययितुं न युक्तमित्यर्थः। विप्रकर्षात् वाक्यादिक्कत्यपूर्वानुपस्थितेः। तहि किमपूर्व लक्षणीयमित्याह किन्त्यिति । दीक्षणीयेति । यथा दोक्षणीयेष्टा व भिहितः सत्यवदनादिरूपवाडियमी दीक्षणीयापूर्व लक्षयनि, तथा पृषदाज्ये नापि सन्निकष्टानुयानापूर्वमेव लक्षयितुं युक्तमित्यर्थः । उत्पवनादौनामिति । मोक्षणीपात्र यदुत्पवनादिकं विहितं तत्प्रोक्षणी पात्रापूर्वार्थ. न तु प्रधानीभूतहोमापूर्वार्थ मित्युक्तमित्यर्थः । वायेति । अनुयानानिति खवाक्यप्राप्ते नेत्यर्थः । तथाच एसनाते पृषदाज्यस्य पनुयानानात्वमेव । व साक्षात्प्रधानीभूतविकृतियागास्वमिति ।
For Private And Personal