________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
स्यादिति वाच्यम् । नहि प्राप्तबाधस्थले चोदकेन पदार्थाः प्राप्यन्ते। तथा सति शास्त्र प्राप्तत्वेन बाधो न स्यात्। किं तहि, तानव पदार्थान् वस्तुत: प्रापयति ये विकतौ न बाध्यन्ते । ते च पदार्थाः प्रकतिवच्छब्देन प्राप्यन्ते इति भवति पुरुषस्य भ्रान्तिः। यथा प्रकृती कृतं तथा विकतौ कर्तव्यमिति सर्वे पदार्थाः कर्तव्या इति ।
अतश्च भ्रान्ति प्राप्ताः खादिरत्वादयः शास्त्रप्रतिपनरौदुम्बरत्वादिभिर्बाध्यन्ते इति तहाधः प्राप्तबाधः । न च भ्रान्तिप्रतिपन्नेन वैधी आकाङ्गा निवर्तयितुं शक्यते । तस्मादयुक्त मुक्तमुभयाकासारूपप्रकरणसम्भवाहिकती प्राकृताङ्गानुवादेन विधीयमाना. नामौदुम्बरत्वादीनां प्रकरणं विनियोजकमिति ।
महौति । प्राप्यन्ते विधीयन्ते । बाधी न स्यादिति ! वैकृतस्यैव बाधः स्थाहिकल्प एव वा स्यादिति भावः। तहि अतिदेश: किं प्रापयतीत्याह किं तहीति। ते पदार्थाः प्राकृतपदार्थाः। इति हेतोः। भ्रान्तेः प्रकारमाह यथेति ।
तबाधः प्राप्तबाध इति । यद्यपि अप्राप्तबाधस्थलेऽपि कर्तव्यताप्रतीतान्तित्वमावश्यकम् भ्रमात्मकप्रतीतिविषयत्वाभावे बाध्यत्वानुपपत्तः, तथापि तत्र प्रमाणस्य, प्रमाणत्वमममूलिका कर्तव्यतामान्तिर्जायते। बाधकप्रमाणेन तु प्रापकप्रमाणस्याप्रमाणत्वकल्पमया प्रमाणत्वधमस्य तन्मूल कव्यवहार्यताबमस्य. ध निराकरणात् व्यवहार प्रतिबन्धः क्रियते । प्राप्तबाधस्थले तु मापकस्यातिदेशस्य प्रमाणत्वबुद्धिर्न भमस्तस्या बुद्धेर्यथार्थत्वात् । पतिदेशस्याप्रमाणत्वे पदार्थान्तरस्थापि विकतो प्राप्तिन स्यात् । परन्तु तत्प्रमाण मूलिका खादिरत्वस्य व्यवहार्यताप्रतीतिरेव भ्रमः । बाधकेन तु वमेव भ्रमं निराकरीता व्यवहारप्रतिबन्धः क्रियते इति विशेषः ।
ननु खादिरत्वेनैवोदुम्बरत्वं बाध्यतामित्यत पाहन चेति । धान्तिप्रतिपत्ति विधिप्रनिपत्त्योविधिप्रतिपत्तेरेव बलीयस्वेन भ्रान्तिप्रतिपन्नेन वैधप्रतिपत्तिविषयस्य बाधी न सम्भवती. न्याशयः। आपत्तिनिरासेन स्वीक्तस्त्र युक्तत्वं प्रदर्शयनुपसंहरति तस्मादिति ।
For Private And Personal