________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न्यायप्रकाशः ।
यथा दर्शपौर्णमासादिः । तत्र चोभयाकाङ्गारूपं प्रकरणं सम्भ
वति, आकाङ्क्षानुपरमात् ।
विकृतौ तु न प्रकरणं सम्भवति । यत्र तु न समग्राङ्गोपदेश: सा विकृतिः । यथा सौर्य्यादिः । तत्र च यान्यपूर्व्वाण्यङ्गानि विद्यन्ते उपहोमादीनि तेषां न प्रकरणं विनियोजकम् । तत्र यद्यपि तेषां किं भावयेदित्यस्त्येवाकाङ्क्षा, तथापि प्रधानस्य न कथम्भावाकाङ्गास्ति, प्रकृतेरेवाङ्गेर्निराकाङ्गत्वात् । शेषः । आकाङ्क्षानुपरमादिति । कथम्भावयेदित्याकाङ्गाया श्रङ्गविधिसमुत्थानसमाप्तिमन्तरेण विरामाभावादित्यर्थः ।
>
Acharya Shri Kailashsagarsuri Gyanmandir
तञ्च प्रकरणं प्रकृतावेवेत्येवकारव्यवच्छेद्यं विकृतौ प्रकरणाभावं स्पष्टमाह विकृतौ त्विति । विकृतिं लचयति यत्रेति । विकृतिमुदाहरति यथेति । सौय्यं चरु निव्र्वपेत् ब्रह्म काम इत्यत्र निव्वापशब्दः । तथा आग्रेयाष्टाकपालं निर्वपेदित्यचापि निविापशब्दः । एवमाग्रेयपदवत् सौय्यपदस्यापि तद्धितप्रत्ययेन एकमात्र देवताबोधकत्वम् । एवं चरोरप्योषधिद्रव्य कत्वमित्येव माग्नेयलिङ्ग सम्बन्धात् सौर्य्यं चरु निव्र्वपेदानेयवदित्यानुमानिकवचनकल्पनाङ्गीकारात् सौव्ययागस्याग्नेयविकृतित्वम् ।
चादिपदादप्रावेवमेकादशकपालं निव्र्वपेदित्युक्ताप्रावैष्णवयागपरिग्रहः । तचापि निर्व्वापपदप्रयोगादिलिङ्गेन श्रग्नीषोमीयवदित्यानुमानिकातिदेशाङ्गीकारात् । एवमेव सिद्धान्तितमष्टमाध्यायप्रथमपादे । अपूर्व्वणि अप्राकृतानि । विकृतावेव विशेषविधिना विहितानीति यावत् । तानि कानौत्यचाह उपहोमादीति । उपहोमा: प्राकृत होमाafafende विहिता होमाः । विकृतौ नचचेष्टौ कृत्तिकादिहोमाः । अत्र प्रमाणं वक्ष्यते । चादिपदात् प्रयाजे कृष्णलं जुहोतोति श्रुत्या सौय्ययागविशेषे विहितानि कृष्णलहोमादीनि । तत्र विकृतौ । तेषाम् अपूर्वा विधायक विधौनाम् । प्रधानस्येति । तथाच अङ्गविधेराकाङ्गासङ्गावेऽपि प्रधानविधेराकाङ। विरहेण उभयाकाङ्गारूपप्रकरणं नास्तीति भावः ।
ननु सौर्यं चरु' निर्व्वपेत् ब्रह्मवर्द्धसकाम इत्यत्र सौम्ययामेन ब्रह्मवर्चसं भावयेदिति बोधस्यावश्याभ्युपेयत्वे कथम्भावयेदित्याकाङ्गाभ्युपगमोऽप्यावश्यक इत्यत श्राह प्राकृतैरेवेति । तथाच प्रायवदित्यतिदेशेन आग्नेयाङ्गानां प्रवृत्त्या तदाकाङ्गानिवृत्तिरिति भावः ।
For Private And Personal