________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न्यायप्रकाशः ।
Acharya Shri Kailashsagarsuri Gyanmandir
८५
सिद्धस्य तु द्रव्यादेः केवलमङ्गत्वम् । तदपि श्रुत्यादिना न तु
प्रकरणात् । यथाहु:
नावान्तरक्रियायोगाद्वते वाक्योपकल्पितात् । गुणद्रव्ये कथम्भावैर्गृह्णन्ति प्रकृताः क्रियाः ॥ इति । अतएव वर्हिर्देवसदनं दामीत्यादिमन्त्रस्य लिङ्गादङ्गत्वं न तु प्रकरणादित्युक्तम् । अर्थवादाधिकरणपूर्व्वपक्षसमाप्तौ एचके कचित् द्रव्यस्येतिकर्त्तव्यतात्वेनाभिधानमङ्गत्वाभिप्रायं द्रष्टव्यम् । बहुग्रन्थस्वरसादुक्तयुक्तेश्खेति । तसिहं प्रकरणं क्रियाया एव विनियोजकमिति ।
तश्च प्रकरणं द्विविधं महाप्रकरणमवान्तरप्रकरणचेति । तत्र भावनायाः प्रकरणं महाप्रकरणम् । तच प्रयाजादीनां ग्राहकम् । तच्च प्रकृतावेव । यत्र समग्राङ्गोपदेशः सा प्रकृतिः ।
For Private And Personal
सिद्धस्य भूतस्य । न तु तदानीं कर्त्तव्यस्येत्यर्थः । सिद्धस्य द्रव्यादेः केवलमङ्गत्वमपि केन प्रमाणेन सिध्यतीत्यत श्राह तदपीति । श्रुत्यादिना वौदिभिर्यजेतेत्यादिना । द्रव्यादीनामङ्गत्वस्य प्रकरणलभ्यत्वाभावे प्रमाणमाह यथाहुरिति ।
नावान्तरेति । वाक्योपकल्पितात् वाक्यप्रतिपादितात् भवान्तरक्रियायोगात् दारोभूतसम्बन्धाहते विना प्रकृताः क्रियाः कथम्भावैः कथं कुर्य्यादित्याकाङ्गाभिर्गुपद्रव्ये गुणद्रव्यादिसिद्धं वस्तु न ग्टहन्ति न प्राप्नुवन्तीत्यर्थः । तथाच भवान्तरक्रियाया एव प्रतिकर्त्तव्यतात्वं न तु गुणद्रव्यादीनाम् । तेषामवान्तर क्रियाणामेव इतिकर्तव्यतात्वं, तहारयैव तेषामत्वम् । इतिकर्त्तव्यतात्वन्तु गौणमिति भावः । अतएवेति । यतः सिद्धस्य बस्तुनो न प्रकरणादङ्गत्वं किन्तु श्रुत्यादिनैव, अतएवेत्यर्थः । द्रव्यस्येतिकर्त्तव्यताभिधानविरोधं परिहरति अर्थवादाधिकरण इति । भङ्गत्वाभिप्रायमिति । ततिकर्त्तव्यता
पदमङ्गलाचणिकमित्यर्थः । बहुग्रन्थेति । भाष्यादीत्यर्थः ।
प्रकरणं विभजति तचेति । द्वैविध्यं दर्शयति महेति । भावनायाः फलभावनाया: । ग्राहक मितिकर्त्तव्यतात्वेन विनियोजकम् । तच्च प्रकरणञ्च । प्रकृतावेवेति । सम्भवतीति
-