________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बायप्रकाशः ।
Acharya Shri Kailashsagarsuri Gyanmandir
८३
परिव्राजकादिरम्राह्मणो भवति । एवञ्च करबगतक्रियाविशेषाकाङ्क्षापरनामधेय कथम्भावाकाङ्क्षायां क्रियैवान्वेतीति युक्तम् ।
स च करणगतक्रियाविशेषोऽम्बाधानादिब्राह्मणतर्पणान्तः क्रियारूप एवेति युक्त तस्य प्रकरणेन ग्रहणम् । तस्य च करणगतत्वं तदुपकारकत्वमेव । तेन विना यागेनापूर्खा जननात् । नद्यमननिपातनव्यतिरेकेण कुठारेण द्वैधीभावो जन्यते । तत् सिद्धं कथम्भावाकाङ्क्षायां क्रियैवान्वेतीति । अतएव द्रव्यदेव - तयोर्यागसम्पादनद्दारान्वयः साम्प्रदायिकैरुक्तः ।
faadौ च कथम्भावाकाङ्क्षायामुपकारकसम्पादनमतिदिश्यते इत्युक्तम् । यदि च कथम्भावाकाङ्क्षायां सिद्धं वस्त्वन्वययोग्यं स्यात्, तदोपका सम्पादनपर्यन्तं धावनं ग्रन्यक्कृतामनर्थकं स्यात् । परिव्राजकादिरिति । यदि कचित् ब्राह्मणः परिव्राजको वानप्रस्थो वा भवेत्, तदा तस्यापि ब्राह्मणविशेषस्य ब्राह्मणत्वसामान्यधर्मवत्त्वं स्यादेव, नाब्राह्मणत्वमिति भावः ।
यागात्मक करणगत क्रियाविशेषं प्रतिपादयति स चेति । अन्वाधानमग्निस्थापनम् । तस्य क्रियाविशेषस्य । नन्वसौ क्रियाविशेषो यागस्य पूर्वोत्तर काल कर्त्तव्यत्वेन श्रूयते । तत्कथमस्य करणीभूतयागगतत्वं सम्भवतीत्यत चाह तस्य चेति । तदुपकारकत्वं तदपूर्वप्रयोजकत्वम् । पत्र हेतुमाह तेन विनेति । लोकेऽपि इतिकर्तव्यतामन्तरेण फलाभावप्रदर्शनायाह नहीति । साधकमाह श्रतएवेति । द्रव्यदेवतयोर्बोहिभिर्यजेत अन च प्रजापतये च जुहोतोत्यादिश्रुतिविहितयोः । यागसम्पादनदारा यागसम्पादकानिप्रक्षेपणोद्देशादिक्रियाद्वारा ।
For Private And Personal
यागसम्पादनहारेत्यत्र साधकमाह विकृतौ चेति । उपकारकसम्यादनम् उपकारकैर्यागस्य सफलताकरणम्। उक्तं मीमांसक ग्रन्थकहिः । पत्र उपकारक सम्पादनमित्यभिधानात् द्रव्यगुणादिसिखवस्तूनां यागसम्पादनहारेवान्वय इति सिध्यति । तेषां साचादन्वयित्वे अभिप्रेते तु तत्कतयागसम्पादनपर्यन्त कथनमनावश्यकमित्याह यदि चेति । उपकार्य्येति । उपकाय्र्यस्य प्रधानयागस्य सम्पादनं फलजननसमर्थीकरणम् । तत्पय्र्यन्तं धावनं स्वाभिप्रायप्रतिपादनाय तत्पय्र्यन्तं वागिन्द्रियचालनम् । तथाच यदि