SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ८२ न्यायप्रकाशः । जातं, तदेवोपकार्याकाइयेतिकर्तव्यतात्वेनान्वयमनुभवितुं योग्यम् । क्रियाया एव लोके कथम्भावाकाङ्क्षायामन्वयदर्शनात्। नहि कुठारेण छिन्द्यादित्यत्र कथमित्याकाङ्क्षायां हस्त इति केवलमुच्चार्यमाणोऽपि हस्तोऽन्वयं प्राप्नोति । किन्तहि हस्तेनोद्यम्य निपात्येत्यचार्यमाणे उद्यमननिपातने एव । हस्तीऽपि तद्दारेणैवान्वयं प्राप्नोतीति सर्वजनीनमेतत् । किञ्च कथम्भावाकाना नाम करणगतप्रकाराकाझा । थमो: प्रकारवाचित्वात् । सामान्यस्य भेदको विशेषः प्रकारः । सामा. न्यञ्च क्रियारूपमेवाख्यातेनोच्यते, यजेत स्वर्गकाम इति । अस्य ह्ययमर्थः । यागेन तथा कर्तव्यं, यथा स्वर्गो भवतीति । क्रियासामान्यस्य विशेषः क्रियैव भवति। नहि ब्राह्मणविशेषः नैरपेक्ष्ये ण फलजननासमर्थतया विहितमित्यर्थः । उपकायांकाझ्या प्रधानकर्माकाजथा । एतेन उभयाकाङ्क्षारूपं प्रकरणं साधितम् । इतिकर्तव्यतात्वेन कर्मण: प्रकारविशेषत्वेन । ननु क्रियाजातस्येव सन्निहिताश्रूयमाण फल कद्रव्यगुणयोरपि कुती मान्वयः ? इत्यत भाा कियाया एवेति । एवकारेण द्रव्यगुणयोहरीभूतक्रियामन्तरेणान्वयस्य लोकादृष्टत्वं घोप्यते । तदेव समर्थयति नहीति । कथमित्याकाङ्क्षायां कुठारेण कथं वैधौभाब भावयेदिति जिज्ञासायाम् । केवलमिति तृतीयाविभक्तिं विनेत्यर्थः । तर्हि किमन्वेतीत्याह कि तहीति । निपात्येत्यनारमितिकारस्य एताभ्यां पदाभ्यामित्यर्थः । तद्दारण उद्यमननिपातनक्रियाहारण। सर्वजनीनं सर्वलोकसिद्धम् । कथम्भावाकाङ्क्षायां क्रियाया एवान्वये युक्तिमाह किञ्चेति। प्रकारवाचित्वादिति । प्रकारे थाल् इत्यत: सूत्रात् प्रकारवचन इत्यनुवर्त्य, इदमस्थमुरिति सूत्रेण थमं विधाय, किमश्चेति सूत्रेण किंशब्दादपि प्रकारवचने थमोर्विधानादिति भावः । प्रकारशब्दार्थमाह सामान्यस्येति । सामान्यधर्मेणीपस्थितस्य भेदक इतरव्यावर्तक इत्यर्थः । प्रकृते सामान्य दर्शयति सामान्यचति । विशेषस्य सामान्यधर्मावच्छिन्नले दृष्टान्नायाह नहीति । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy