________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न्यायप्रकाशः ।
Acharya Shri Kailashsagarsuri Gyanmandir
७७
उभयाकाङ्क्षा प्रकरणम् । यथा प्रयाजादिषु समिधो यज
तोति । अत्र हि दृष्टविशेषस्यानिर्देशात् समिद्यागेन भावयेत् किमित्यस्युपकार्य्याकाङ्क्षा ।
दर्शपौर्णमासवाक्येऽपि दर्शपौर्ण
मासाभ्यां स्वर्गं भावयेत् कथमित्युपकारकाकाङ्गा । अत उभ याकाङ्क्षया प्रयाजादीनां दर्शपोर्णमासाङ्गत्वं सिध्यति ।
ननु यदि प्रयाजादिवाक्ये इष्टविशेषो न श्रूयते तर्हि विश्वजियायेन स्वर्गफलं कल्पयताम् । विश्वजिदधिकरणे हि विश्वजिता यजेतेत्यत्र फलस्याश्रवणात् फलमन्तरेण विधिश्रुतेरनुप
लिङ्गात् इन्द्राग्निदेवताप्रकाशनसामर्थ्यात् । इदं हविरित्यादेरिति । इन्द्राग्रिमन्त्रशेषांशस्येत्यर्थः ।
For Private And Personal
प्रकरणं निरूपयति उभयेति । अङ्गाङ्गित्वेनाभिमतयोरुभयोः परस्यराकाङ्गेत्यर्यः । उभयेति करणादन्यतराकाङ्क्षायाः प्रकरणत्वं न स्यादिति दर्शितम् । उदाहरति यथेति । समिधो यजतोत्यच उभयाकाङ्क्षां प्रतिपादयति अन हौति । इष्टविशेषस्य फलविशेषस्य । निर्देशादनुल्लेखात् । समिद्यागेनेति । समिद्यागेन किं भावयेदित्युपकाय्याकाङ्क्षास्तौ त्यन्वयः । उपकाय्र्यस्य यागविशेषस्य भाव्यत्वेनाका तेत्यर्थः । श्रचैव इष्टविशेषानिर्देशादिति हेतुः । तथाच स्वर्गादिफले तज्जनकतया कर्माणि च पुरुषेच्छाया जायमानत्वात् स्वर्गादिरूपेष्टविशेषश्ववणे तस्यैव भावनायां कम्मत्वेनान्वयः स्यात् । तदश्रवणे तु इष्टविशेषजनकतया पुरुषेच्छाविषयस्य प्रधानयागस्यैव भाव्यत्वेनान्वयस्यौचित्यात् कतमं यागविशेषं भावयेदित्याकाङ्क्षा जायत इति भावः ।
उप
अङ्गविधेराकाङ्गां प्रतिपाद्य प्रधानविवेरप्याकाङ्क्षां प्रतिपादयति दर्शति । कारकाकाङ्गेति । इतिकर्तव्यताकाङ्गेत्यर्थः । दर्शपौर्णमासाङ्गत्वं तदुपकारकत्वम् ।
अत्र स्वारसिकेच्छाविषयस्य स्वर्गादेरेव मुख्यप्रयोजनत्वं तज्जनकयागादस्तु श्रन्येच्छाधनेच्छाविषयतया गौणप्रयोजनत्वमेव । एवञ्च मुख्यप्रयोजनस्य भाव्यत्वसम्भवे गौणप्रयोजनस्य भाव्यत्वाङ्गीकारोऽनुचित इत्यभिप्रायेण शङ्कते नन्विति । ननु विश्वजिन्याये किं सिद्धान्तितं येन श्रुतफलके कर्माणि तन्यायात् स्वर्गः फलत्वेन कल्पनीयः स्यादित्यतस्तदधिकरणसिद्धान्तं दर्शयति विश्वजिदधिकरणे हौति । इत्युक्तमित्यनेनास्यान्वयः । अनुप