________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
रित्यादेरपि तदेकवाक्यत्वाद्दर्शाङ्गत्वम् । न तु प्रकरणादर्शपौर्णमासाङ्गत्वम् । प्रकरणाहाक्यस्य बलीयस्त्वादिति ।
इदं हविरित्यादि वाक्यं दर्शयागे विनियोक्तव्यम्, दर्भदेवताप्रकाशकत्वात् । एकैकवाक्य - स्थापि सूतवाकत्वाविशेषण परस्पराकाङ्घाविरहेण च विभज्य विनियोगो न दोषाय । न तु प्रकरणादुभयत्रापि वाक्यदयविनियोग इति तीयाध्यायहितीयपाद सिद्धान्तितम् ।
तत्र पुनः संशयः । किममावास्यायामिन्द्राग्नी इदं हविरित्यादि समग्रवाक्यं तथा पनीषोमाविदं हविरित्यादिमन्त्रस्य अनीषोमावित्यं शं परित्यज्य इदं हविरित्याद्यवशिष्टपदनातं पठनीयम् । एवं पौर्णमास्याम् अग्नीषोमाविदं हविरित्यादि समग्रवाक्यं तथा इन्द्रानो इदं हविरित्यादिवाक्यस्य इन्द्राग्नी इत्यंशं परित्यज्य इदं हविरित्याद्यवशिष्ट पदजातच पठनीयम् । तथा सति तयोर्मन्वयोरुभययागाङ्गत्वबोध को दर्शपौर्णमासप्रकरणपाठः समाहत: स्यात् । स्याचान्यदेवताबोधकपदस्यान्ययागे विनियोगः परिहतः ।
किंवा अग्नीषोमावित्यस्य इन्द्राग्नौ इत्यस्य च इदं हविरित्याशेरन्वितस्स एकवाक्यत्वापन्नतया वाक्यविरोधादवशिष्टांशस्यापि एकत्र विनियोग: शास्त्रार्थः । इत्येवं वाक्यप्रकरणयोः समवाये वाक्यं बलवत्प्रकरण न्तु दुर्बलम्। विलम्बे नार्थप्रतिपादकत्वात् । तथाहि यद्यमावास्यायां प्रकरणबले नानौषोमाविदं हविरित्यादिमन्त्रस्य अग्नीषोमावित्यंश परित्यज्य इदं हविरित्यादि शेषांशमात्रं पश्यते, तदा तत्र देवतावाच कपदविरहात् दर्शदेवताप्रकाशकत्वाय प्रथममिन्दाग्निपदान्वयेन वाक्यं कम्पनीयम् । तेन वाक्येन इन्द्राग्निप्रकाशनसामथ्र्य रूपं लिङ्ग कल्पनीयम्। तच्च लिङ्गमनेन मन्त्रशेषांशेन इन्द्राग्निविषयकक्रियानुष्ठेयेति श्रुतिं कल्पयति ।
एवं यदि पौर्णमास्यां प्रकरण मलेन इन्ट्राग्नी इदं हविरित्यादिमन्त्रस्य इन्द्राग्नी इत्यंशभपहाय इदं हविरित्यादि शेषांशमात्रं पश्यते, तदा तत्रापि देवतावाचकपदाभावात् पौर्णमासदेवताप्रकाशकत्वाय प्रथममग्निषोमपदान्वयेन वाक्यं कल्पनीयम् । वाक्यालिङ्ग लिङ्गाच श्रुति: कल्पनीया।
एवञ्च प्रकरण विनियोगधोमध्ये विभिर्व्यवधानम्। अनीषोमादिपदसहितन्तु वाकई श्रूयमाणतया न कल्पनीयम् । अतो लिङ्ग श्रुतिभ्यामेव व्यवधानं विनियोगस्य । तस्माहाकोन विलम्बेनार्थप्रतिपादकस्य प्रकरणस्य बाधितत्वात् तत्तच्छेषांशसत्रैव व्यवतिष्ठतेन नूभयवेति । एवमेव टतीयाध्याय रतीयपाद न्यायमाला।
For Private And Personal