________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशा
चल्यात् सैव सामान्यसम्बन्धे प्रमाणम् । दुर्बलस्य प्रबलाश्रितस्य प्राबल्यात् ।
अतएव श्रुत्यपेक्षया दुर्बलाया अपि स्मृतराचमनरूपप्रबलपदार्थाश्रितत्वेन प्राबल्यात् पदार्थधम्मगुणभूतोतक्रमत्यागेन वेदकरणानन्तरं चुते आचमनमेव कार्यमित्युक्तम् । यथाहुः
लिङ्गेन प्रकरणबाधानन्तरमेव समाख्यायाः प्रमाणत्वेनोपस्थितिनं तु समाख्यया प्रकरणं योध्यत इति भावः। - अतएवेति । प्रवलाश्रितस्य प्राबल्यादेवे त्यर्थः । दुर्बलायाः प्रथमाध्यायटतीयपादीयश्रुतिप्राबल्याधिकरणसिद्धान्ति तायाः। मा तेरिति प्राबल्यादित्य नेनान्वितम् । प्रबलेति। पदार्थगुणभूतक्रमापेक्षया बलवदित्यर्थः । पदार्थोऽनुष्ठीयमानं कर्म । तदाश्रितत्वेन सबोधकत्वेन । पदार्थधर्मेति । पदार्थानामनुष्ठीयमानकर्मणां धर्मः, अतएव गुणभूती यः श्रौतः श्रुतियोधित; क्रमतत्यागेन तहाधमेमेत्यर्थः ।
वेदकरणानसरमिति । अयमाशयः । वेदं कस्वा वेदिं कुर्यादिति श्रुतिः । तत्र वेदी माम दर्भमयं सम्मार्जनसाधनम् । वैदिराहवनौयगाई पस्यमध्यवर्तिनी चतुरङ्गुलनिखाता भूमिरिति माधवाचायाः । तया च वेदवेदिकरणयोः पौर्वापर्यरूपः क्रमोऽवगम्यते । यदि वेदकरणानन्तरं वेदिकरणात् पूर्वञ्च तं स्यात्, तदा “क्षुत आचाम दिति स्मृत्या पाचमनं विधीयते । तदानौं तदनुष्याने वेदवेदिकरणयोः पौर्वापर्यरूपश्रोतबाध: स्यात् ।
तर्हि किं श्रुत्या स्मृतिबोधिताचमनस्य बाधोऽङ्गीकार्यः । किंवा स्मृत्या श्रोतक्रमबाधनाचमनमनुष्ठेयमिति संशये श्रुत्यपेक्षया स्मृतेर्दुर्बलतया आचमनस्यैव बाध इति पूर्वपचे हतीयाध्यायटतीयपाद सिद्धान्त: । पदार्थः प्रधानं क्रमश्च पदार्थधर्मतया गुणमूत एव । ततश्च प्रबलपदार्थाविततया तस्याः स्मृतिरपि प्राबल्यात् तया श्रुतिबीधितोऽपि गुणभूतः क्रम एव बाधनौयो न पुनः श्रोतक्रमेण स्मृतिर्बाध्यते । क्रमस्य गुणभूतत्वेनामावस्यात्। सुतेन प्रागुत्पन्नसंस्कारस्य विनष्टतया पशुचिभूतस्य पुंसी वेदिकरणानधि कारित्वे समुपस्थिते पाचमनस्य शौचरूपाधिकारसम्पादकत्वनावश्यकत्वाच्च । तथाचीत भपादै:
येषां पदार्थधर्मत्वात् दौर्बल्यं पूर्वनिश्चितम् । न तेषां श्रत्यवष्टम्भात् तत्पश्चादपगच्छति ॥
For Private And Personal