________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः ।
मैवम् । पूषानुमन्वणमन्वे हि श्रूयमाण एवमवगम्यते पूषाभिधानसमर्थवादयं मन्त्रस्त प्रकाशनार्थ इति । लवनमन्त्र इव लवनप्रकाशनार्थः । न तत्र प्रकरणाद्यपेक्षा येन तेषामुपजीव्यत्वेन प्राबल्यं स्यात् । प्रकरणात्त दर्शपौर्णमासार्थवे तस्य वाक्यलिङ्गश्रुतिकल्पनेन विनियोजकत्वाल्लिङ्गस्योपजीव्यत्वेन प्राबल्यम् । अतो लिङ्गात् पूषप्रकाशनार्थवे अवगते तन्मात्रप्रकाशनमनर्थ कमित्यपूर्वप्रकाशनार्थत्वं वक्तव्यम् ।
किन्तदपूर्वमित्यपेक्षायां यागानमन्त्रणसमाख्यानुग्रहीतत्वालिङ्गात् पूषयागापूर्वसम्बन्धिदेवताप्रकाशनार्थोऽयमित्यवगम्यते । अतो यद्यपि समाख्यातः प्रकरणं बलीयस्तथापि तस्य लिङ्गन वाधितत्वात् समाख्याया दुर्बलाया अपि लिङ्गाश्रितत्वेन प्रा
___ पूर्वपक्षं निराकरोति मैवमिति । लवनमन्त्र इवेति । यथा वहिर्देवसदनं दामौति मन्त्र श्रूयमाण एव लवनाभिधानसामर्थ्यादयं लवनप्रकाशनार्थ इत्य वगम्यते। तथा पूषानुमन्त्रणमन्त्रेऽपि श्रूयमाण एव पूषाभिधानसामर्थ्यादयं मन्त्र: पूषप्रकाशनार्थ इति प्रतीयतइत्यर्थः । तत्र पूषप्रकाशनार्थत्वावगमे । येन प्रकरणाद्यपेक्षत्वेन । तेषां प्रकरणादीनाम्। उपजीव्यत्वेन सहकारिविधया आम्रीयमाणत्वेन । तस्माल्लिङ्गस्यैव प्रकरणोपजीव्यत्वेन प्राबल्यमित्याह प्रकरणाविति । तस्य प्रकरस्य । वाक्येति । प्रकरणादाक्य कल्पनम् एष मन्त्री दर्शपौर्यमासप्रकरणीयतया तदर्थमिति । मन्त्रलिङ्गस्य च तद्देवतार्थकत्वकल्पनम् । ततः अनेन मन्त्रेण दर्शपौर्णमासदेवता अनुमन्त्रयेदिति श्रुतिकल्पनम् । ततोऽस्य तत्र विनियोग इति भावः । उपजीव्यत्वेनेति । प्रकरणस्य विनियोजकत्वे खिङ्गास्याश्रयणीयत्वादिति भावः। पत इति । प्रकरणस्य दुर्बलप्रमाणत्वादित्यर्थः । तन्मात्रप्रकाशनं यागदेवतात्वविशेषणरहितपूषप्रकाशनम् । अपूवेति । पपूर्वजनकपूषदेवताप्रकाशनार्थत्वमित्यर्थः ।
अपेक्षायामिति । तथाच तथाविधाकासावशादेव समाख्या लिङ्गेन सहकारिविधया भाबीयत इति भावः। सम्बन्धीति जनकेत्यर्थः । वाधितत्वादिति । तथाच
For Private And Personal