________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
गम्यते तावप्रकरणादर्शपौर्णमासाभ्यामेव सामान्य सम्बन्धोऽवगतः। समाख्यातस्तस्य बलीयस्त्वात् । अतएव पौरोडाशिकमिति समाख्याते ब्राह्मण आम्नातानामपि प्रयाजानां प्रकरणात् सानाय्योपांशयागाङ्गत्वमपीत्युक्तम् । किञ्च यागानुमन्त्रणसमाख्ययापि न पूषयागेन सामान्य सम्बन्धोऽवगम्यते । किन्तु यागमात्रेण। प्रकरणन तु दर्शपोर्णमासाभ्यामेव विशेषेण सम्बन्धीऽवगम्यते । अत: प्रकरणात् झटिति तत्सम्बन्धस्यैवावगतत्वात् तदर्थत्वमेव तेषां युक्तम् । पूषेति शब्दस्य पूषतीति व्युत्पत्त्या कथञ्चिदग्न्याद्यभिधायित्वात् । भावः । दर्शपौर्णमामाभ्यामिति। पूषानुमन्त्रण मन्त्राणां दर्शपौर्णमासप्रकरणपठितत्वादिति भावः । बनु समाख्य या प्रकरणं बाध्यतामित्यवाह समाख्यात इति । श्रुतिलिङ्गवाक्यप्रकरण स्थानसमाख्यानां समवाये पारदौर्बल्यमविप्रकर्षादिति सूचे समाख्यायाः सर्वजघन्यत्वादिति भावः ।
पत्र दृष्टान्तमाह पतएवेति। ब्रामणे काण्डे । अयमाशय: । दर्शपौर्णमासकाण्डान्तर्गतं किञ्चित्कारहं पौरीडाशि कमिति समाख्यायते। यत्र पुरीडाशोपयोगिनी विधयः श्रयन्ते । पुरोडाशमर्हति पौरीडाशिकमिति समाख्यया तत्काण्डोक्तानां कम्मणां पात्राणां मन्त्राणाञ्च पुरोडाशयागीपयोगित्वं प्रतीयते । तस्मिन् काण्डे प्रयाजानामपि विधानात् लेषामपि पौरोडाशिकमिति काण्ड समाख्यया पुरोडाशयागाङ्गत्वमेव प्राप्नोति । दर्शपौर्णमासप्रकरणाच्च दर्भपौर्णमासयागाङ्गत्वं प्रतीयते। तत्र यथा प्रकरणस्य समाख्याती बलबत्तया समाख्यया प्रयाजानां न पुरोडाशयागमात्राङ्गत्वं किन्तु प्रकरण बलात दर्शपी. मासान्तर्गतसान्नाथ्योपांशुयागाङ्गत्वमपि इति सिद्धान्तितम्, तथेहापौति ।
समाख्य या बीधितस्यापि प्रकरणे न बाध्यत्वं प्रदर्शितं प्रकृते तु समाख्यया पूषयागाङ्गत्वमपि न बोध्यत इत्याह किञ्चेति । सामान्यसम्बन्ध: सामान्यत: पूषयागसाकल्येन सह सम्बन्धः । यागमात्रेण यागसाकल्येन । यागानुमन्त्रणसमाख्यायाः सर्वयागविनियोजकत्वादिति भावः। विशेषेण विशेषधर्मेण । तदर्थ त्वं दर्शपौर्णमासार्थत्वम् । पूषदेवताप्रकाशकमन्त्र स्थ पूषपदस्थ समवेतार्थतामाह पूषतौति । पूष बडावित्यस्य रूपम् । कथचिदिति । वृद्धिमत्त्वस्य सर्वदेवतासु सम्भवादिति भावः ।
For Private And Personal