SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ર www.kobatirth.org न्यायप्रकाशः Acharya Shri Kailashsagarsuri Gyanmandir णादिसामान्य सम्बन्धबोधकं स्वीकाय्र्यम् । दर्शपौर्णमासप्रकरखे हि मन्त्रस्य पाठादेवमवगम्यते अनेन मन्त्रेण दर्शपौर्णमासापूर्वसम्बन्धि किञ्चित् प्रकाश्यत इति । अन्यथा प्रकरणपाठवैयर्थ प्रसङ्गात् । किन्तदपूर्व्व सम्बन्धि प्रकाश्यमित्यपेक्षायां सामर्थ्यादर्हिर्सवनमित्यवगम्यते । त िवहि: संस्कारद्वारा अपूर्व्वसम्बन्धीत मन्त्रस्य सामर्थ्यात्तदर्थत्वे सति नानर्थक्यं प्रसज्यते । तस्मादहिर्देवसदनं दामीत्यस्य प्रकरणाद्दर्शपौर्णमास सम्बन्धितयावगतस्य सामर्था:लवनाङ्गत्वमिति सिद्धम् । याग पूषानुमन्त्रणमन्त्राणान्तु यागानुमन्त्रणसमाख्यया सामान्यसम्बन्धे अवगते सामर्थ्यात् पूषयागसम्बन्धोऽवगम्यते । ननु तेषां यावत्समाख्यया पूषयागेन सामान्य सम्बन्धोऽव शक्तः । स्वीकाय्यैमपेचणीयम् । किम्प्रकरणौथोऽयं मन्त्र इत्यचाह दर्शति । अपूर्वसम्बन्धि अपूर्व जनकम् । किञ्चित् किमपि कम्मं । वर्हिर्लवनस्या पूर्वसम्बधित्वं साधयति तद्धीति । वह्निः संस्कारेति । अमन्त्रकलूनवर्हिषो असंस्कृतत्वम्, असंस्कृतवर्हिषा चापूर्व्वानिष्पत्तिरिति संस्काराधानद्वारा अपूर्वजनकत्वं मन्त्राणामिति भावः । इति हेतोः । तदर्थत्वे वहिरुपकारकत्वें । उपसंहरति तस्मादिति । प्रमाणान्तरसापेचलिङ्गस्य उदाहरणान्तरमाह पूषानुमन्त खेति । यागानुमन्त्रणेति । यागमनु लचीकृत्य मन्त्रोच्चारणं यागानुमन्त्रणम् । तथाच केषाञ्चिन्मन्त्राणामनुमन्त्रणमन्त्रत्वमुक्त तेषां मन्त्राणामनुमन्त्रणशब्दस्य यज्ञीयमन्त्रोचारणरूप समाख्यया यज्ञे विनियोगोऽवगम्यते । परन्तु कस्मिन् यज्ञविशेषे तन्मन्त्रविनियोग इत्यनुपलम्भेऽपि मन्त्रायां तत्तद्देवताप्रकाशकत्वलिङ्गेन तत्तद्देवतायाग एव विनियोगोऽवधारणीय इति पूषानुमन्त्रणमन्त्राणामपि पूषदेवताप्रकाशकत्वलिङ्गेन पूषयाग एव विनियोगी वक्तव्य इति भावः । अत्र पूर्वपचयति नन्विति । तेषां मन्त्राणाम् । समाख्यया समाख्यासहकृत लिङ्गेन । पूषयागेन सामान्यसम्बन्धः निखिलपूषयागसम्बन्धः । न तु दर्शपौर्णमासोयपूषया येनैवेति __ For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy