________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
सामान्यसम्बन्धबोधकप्रमाणान्तरापेक्षं तदनपेक्षच। तत्र यदन्तरेण यन्त्र सम्भवत्येव तस्य तदङ्गत्वं तदनपेक्षकेवललिङ्गादेव । यथा पदार्थज्ञानस्य कर्मानुष्ठानाङ्गत्वम् । नहि अर्थज्ञानमन्तरेणानुष्ठानं सम्भवति । - यदन्तरेण यत्सम्भवति तस्य तदर्थत्वं तदपेक्षम् । यथोक्त स्य मन्त्रस्य लवनाङ्गत्वम् । लवनं हि मन्त्रं विना उपायान्तरण स्मृत्वा कत्तुं शक्यमतो न मन्त्रो लवनस्वरूपार्थः सम्भवति, किन्त्वपूर्बसाधनीभूतलवनार्थः। तत्त्वञ्च न सामर्थमात्रादवगम्बते। लवनप्रकाशनमात्रे सामर्थ्यात् । अतोऽवश्यं प्रकर
लिङ्ग विभजति तच्चेति । सामान्येति । यत्प्रमाणान्तरं यागे सामान्यतस्तन्मन्त्रसम्बन्ध बोधयति न पुनस्तद्यागीय कर्मविशेषे, तत्प्रमाणान्तरं सामान्यसम्बन्धबोधकम्। तदपेक्षं तत्सापेक्षं न तु तन्नेरपेक्ष्येण यागान्तरीयकर्मविशेषेऽपि विनियोजकमित्यर्थः । तदनपेक्षं तथाविधप्रमाणान्तरनिरपेक्षम् । तदनपेक्षलिङ्गादङ्गत्व प्रदेशमनुगमयति तवेति। तदन. पेवेति । तदनपेक्षं सामान्यसम्बन्धबोधकप्रमाणान्तरानपेक्षं यत् केवललिङ्गं तस्मादेवेत्यर्थः । उदाहरति यथेति । पदार्थज्ञानस्य मन्त्रघटकपदार्थज्ञानस्य । कति। कर्मानुष्ठानोपकारकत्वमित्यर्थः । अर्थज्ञानस्यानुष्ठानप्रयोजकत्वं साधयति नहौति।
प्रमाणान्तरसापेक्षलिङ्गादङ्गत्वप्रदेशमनुगमयति यदन्तरेणेति । तदर्थत्वं तदङ्गत्वम् । तदपेक्षं सामान्यसम्बन्धबोधकप्रमाणान्तरापेक्षलिङ्गप्रमाणकम् । तदुदाहरणमाह यथेति । उक्तस्य मन्त्रस्य वहिदेवसदनं दामीति मन्त्रस्य । तन्मन्त्रमन्तरेणापि कर्मसम्भवं प्रति. पादयन् तदुदाहरणत्वमस्य साधयति लवनं हौति। उपायान्तरेण वहिछेदनपूर्ववर्तिकर्मानुष्ठानानन्तरमेव वहिछेदनसंस्कारोबोधेन । लवनस्वरूपार्थः अर्थज्ञानस्य कर्माजुष्टानोत्पादकत्ववत् न लवनोत्पादकः । तर्हि मन्त्र: किमर्थ इत्यवाह किन्विति । अपूर्वेति। अपूर्वसाधनीभूतं यल्लवनं तदर्थस्त जनकः । लवनस्यापूर्वसाधनताजनक इति यावत् । अमन्त्र कलवनस्यापूर्वजनकता न स्यादिति भावः । तत्त्वञ्च अपूर्व. साधनीभूतलवनार्थत्वञ्च । सामर्थ्यमात्रात् सामान्यसम्बन्धबोधकप्रमाणान्तरनिरपेक्षकेवललिङ्गात्। लवनप्रकाशनमाचे सर्वकर्माङ्गभूतकुशच्छेदनप्रकाशने। सामर्थ्यात् मन्त्रस्य
For Private And Personal