________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
इन्द्रोपस्थानाङ्गवं कल्प्यते तावत् प्रत्यक्षया श्रुत्या गाईपत्योपस्थानार्थत्वं क्रियत इति ऐन्द्री गार्हपत्योपस्थानानाम् । सामर्थं लिङ्गम् । यदाहुः
सामर्थं सर्वभावानां लिङ्गमित्यभिधीयते। इति । तेनाङ्गलं यथा । वहिर्देवसदनं दामीति। अस्य लवनाङ्गत्वम् । स हि लवनं प्रकाशयितुं समर्थः। तच लिङ्गं बिविधम् ।
तत्र प्राथमिकेन ऐन्द्रग्रतिपदेन इन्द्रप्रकाशकऋक्करणकत्वावगमादिन्द्रोपस्थानस्य प्रथमोपस्थितेस्तहिरोधेन गाईपत्यपदमिन्द्रलाक्षणिकमस्विति प्राप्त लिङ्गादौनां श्रुत्यपेक्षया दौर्बल्यं विलम्बेनार्थप्रकाशकत्वादित्युक्तम् । तदेवाह अत्र यावदिति । यावत् यावता कालेन । लिङ्गात् इन्द्रप्रकाशनसामर्थ्यात् । कल्प्यत इति । यद्यसो मन्त्र इन्द्रोपासनार्थो न स्यात् तदा पनेन इन्द्रप्रकाशनमनुपपन्नम्। अन्धोपस्थानकाले अन्यतुतेरनुचितन्नादित्यर्थापत्त्या, अयं मन्त्र इन्द्रीपस्थानकरणम्। इन्द्रप्रकाशकत्वात् वर्हिदेवसदनं दामौनि मन्त्रस्य कुशच्छेदनकरणत्ववदित्यनुमानेन वा गम्यत इत्यर्थः । सावत् तावता कालेन । माई. पत्योपस्थानार्थत्वं गाई पत्योपस्थानाङ्गत्वम् । क्रियते प्रतिपाद्यते । अर्थापच्यादेविलम्बोपस्थापकत्वात् श्रुतेस्तु झटित्युपस्थापकत्वादिति भावः । ऐन्द्री ऋक् तस्या अर्थो विचारविस्तरवार्थ संग्रहटीकायामस्मत्कृतायां ट्रष्टव्यः ।।
लिङ्ग निरूपयति सामर्थ्यमिति। अर्थ प्रकाशनसामर्थ्यमित्यर्थः । तत्प्रमापयति यदाहुरिति । सामर्थ्य शक्तिः। सर्वभावानां सर्वपदार्थानाम् । तेन शब्दानामपि संग्रहः। सर्वशब्दानामिति पाठ तु व्यक्त एवार्थः । लिङ्गस्य विनियोजकत्वं प्रतिपादयति तेनाङ्गत्वं यथेति । वहिरिति । देवसदनं देवानां स्थानं वाह: कुशं दामि लुनामौत्यर्थः। लवनाङ्गत्वं कुशच्छेदनविनियोज्यत्वम् ।
तथाच दर्शपौर्णमासप्रकरखे एतन्मन्नमात्र श्रूयते न पुनरनेन मन्त्रणैतत् कार्यमित्येक विनियोजिका साक्षात् श्रुतिरस्ति । प्रती मन्त्रेण कुशच्छेदनरूपार्थप्रकाशनादेव पनेन मन्त्रेण कुशं छिन्द्यादिति श्रुति कल्पयित्वा तहलेन कुशच्छेदने तस्य विनियोगोऽवधारणीय इति भावः।
For Private And Personal